________________
७३-७४]
शतकनामा पञ्चमः कर्मग्रन्थः। गरोपमकोटीकोट्य उत्कृष्टा स्थितिः । एताः शुभप्रकृतय आत्मीयाऽऽत्मीयोत्कृष्टस्थितेरारभ्य प्रतिपक्षप्रकृतिभिः सह तावत परावृत्य परावृत्य बध्यन्ते, यावत् तासामेव प्रतिपक्षप्रकृतीनां सर्वजघन्याऽन्तःसागरोपमकोटीकोटीलक्षणा स्थितिः । एतेषु स्थितिस्थानेषु परावर्तमानमध्यमपरिणाम एतासां जघन्यानुभागं बध्नाति । हुण्ड-सेवार्तयोरपि वामन-कीलिकयोरुत्कृष्टस्थितेरारभ्य तावत् परावृत्तिर्लभ्यते यावदात्मीयाऽऽत्मीयजघन्यस्थितिः। शेषसंस्थान-संहननानामप्यात्मीयात्मीयोत्कृष्टस्थितेरारभ्य सम्भवदितरसंस्थान-संहननैः सह परावृत्तिस्तावद् लभ्यते यावदात्मीयाऽऽत्मीयजघन्यस्थितिः । एतेषु स्थितिस्थानेषु मिध्यादृष्टिः परावर्तमानमध्यमपरिणामो जघन्यानुभाग बध्नातीति ॥७३॥
प्ररूपिताः सप्रपञ्चं जघन्यानुभागवन्धस्वामिनः । साम्प्रतमनुभागवन्धमेव मूलोत्तरप्रकृतीरुद्दिश्य भङ्गकैर्विचारयन्नाह--
चउतेयवन्न वेयणियनामणकोसु सेसधुवबंधी ।
घाईणं अजहन्नो, गोए दुविहो इमो चउहा ॥७४।। इह ग्रन्थलाघवार्थ यथातथा प्रकृतयो भङ्गकैबिचार्यन्ते । तत्र चतुःशब्दस्य प्रत्येकं सम्बन्धात् तेजस चतुष्कं-तेजस-कार्मणा-ऽगुरुलघु-निर्माणलक्षणं, वर्णचतुष्कम्-अग्रेऽप्रशस्तस्य वक्ष्यमाणत्वादिह प्रशस्तं वर्ण-गन्ध-रस-स्पर्शाख्यं गृह्यते इति, एतासामुत्तरप्रकृतीनामष्टानामनुत्कृष्टः, "इमो चउह" ति पदं सर्वत्र योजनीयम् , अयमनुत्कृष्टो बन्धश्चतुर्धा-सादिरनादिध्रुवोऽध्रुवश्व भवति । तथा वेदनीय नाम्नोमलप्रकृत्योरनुत्कृष्टो बन्धश्चतुर्धा-सादिरनादिध्रुवोऽध्रुवश्च भवति । तथा “सेसधुवबंधि" ति षष्ठयर्थे प्रथमा, ततो भणितशेषाणां ध्रुवबन्धिनीनां ज्ञानावरणपञ्चकदर्शनावरणनवक मिथ्यात्व-कषायषोडशक-भय-जुगुप्सा--ऽप्रशस्तवर्णादिचतुष्क-उपघाता-ऽन्तरायपञ्चकलक्षणानां त्रिचत्वारिंशतः प्रकृतीनामजघन्यानुभागबन्धश्चतुर्धा सादिरनादिधु वोऽध्रुवश्च भवति । तथा ज्ञान-दर्शन चारित्रलाभादिगुणान् धनन्तीत्येवंशीलानि घातीनि-ज्ञानावरण-दर्शनावरण-मोहनीया-ऽन्तरायाणि तेषामजघन्यानुभागबन्धश्चतुर्धा सादिरनादि, वोऽध्रुवश्च भवति । तथा 'गोत्रे' गोत्रकर्मणि द्विविधोऽनुत्कृप्टा जघन्यलक्षणो बन्धश्चतुर्धा सादिरनादिध्रुवोऽध्रुवश्च भवतीत्यक्षराथः ।
___ भावार्थस्त्वयम्- तत्र तेजस-कार्मणा-गुरुलधु-निर्माण-प्रशस्तवर्ण-गन्ध-रस-स्पर्शलक्षणानामष्टानामुत्तरप्रकृतीनामनुत्कृष्टाऽनुभागबन्धः साद्यादिचतुविकल्पोऽपि भवति । तथाहिकर्मणां हि रसो यस्मादन्यो हीनो नास्ति स सर्वजघन्यः, तत ऊर्ध्वमेकं रसांशमादौ कृत्वा यावत् सर्वोत्कृष्टस्तावदजघन्य इत्यनन्तभेदभिन्नोऽप्यसो जघन्याऽजघन्यप्रकारद्वयेन क्रोडीकृतः, तथा
12