SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ५५-५६ ] शतकनामा पञ्चमः कर्मग्रन्थः । सर्वविरतिं परिपाल्य तथैव गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन षट्षष्टिसागरोपमाणि पूरयित्वा मनुष्येष्वन्तमुहूर्त सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयषट्षष्टिसागरोपमाणि सम्यग्दर्शनकालं वारत्रयमच्युतगमनेन पूरयति । इह च सम्यक्त्वात् प्रच्युतस्य मिश्रगमनं यद् उच्यते तत् कार्मग्रन्धिकाभिप्रायेण सम्मतमेवेति, सैद्धान्तिकानां तु न सम्मतमिति । उक्तं च___ 'मिच्छत्ता संकंती, अविरुद्धा होइ सम्ममीसेसु । मिसाओ वा दोसु, सम्मा मिच्छं न उण मीसं ।। (बृहत्क० भा० गा० ११४) इति । सर्वत्र च सम्यग्दर्शन-मिश्रयोर्वर्तमान एताः प्रकृतीन बध्नातीत्यनेन क्रमेणासां तिर्यत्रिकनरकत्रिक-उद्योतलक्षणसप्तप्रकृतीनां नरभवयुतं चतुःपल्योपमाधिकं त्रिषष्टयधिकसागरोपमशतं परमा-प्रकृष्टा पञ्चेन्द्रियेष्वबन्धस्थितिः-अबन्धकाल इति । उक्तं च । पलियाई तिन्नि भोगावणिम्मि भवपञ्चयं पलियमेगं । सोहम्मे सम्मत्तेण नरभवे सव्वविरईण ॥ मिच्छी भवपच्चयओ, गेविज्जे सागराइँ इगतीसं । अंतमुहुत्तूणाई, सम्मत्तं तम्मि लहिऊणं ॥ विरयनरभवंतरिओ, अणुत्तरसुरो उ अयर छावट्ठी । मिस्सं मुहुत्तमेगं, फासिय मणुओ पुणो विरओ ।। छावट्ठी अयराणं, अच्चुयए विरयनरभवंतरिओ । तिरिनरयतिगुज्जोयाण एस कालो अबंधम्मि ॥ स्थावरचतुष्कं-स्थावर-सूक्ष्मा-ऽपर्याप्त साधारणलक्षणम् , ''इग" त्ति एकेन्द्रियजातिः, विकलाः-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियजातयः, आतपम् एतेषां द्वन्द्वः, तेषु, एतासु नवसु प्रकृतिषु पञ्चाशीत्यधिकं शतं पञ्चाशीतिशतम् "अतर" त्ति न तीर्यन्ते बहुकालतरणीयत्वाद् 'अतराणि' सागरोपमाणि, षष्ठ्यर्थे चात्र प्रथमा, यतः प्राकृते हि विभक्तीनां व्यत्ययोऽपि भवति, यदाह पाणिनिः स्वप्राकृतलक्षणे-'व्यत्ययोऽप्यासाम्" इति, तेषामतराणां "नरभवयुतं सचतुःपल्यम्" इत्यत्रापि सम्बन्धनीयम् , ततश्चतुःपल्योपमाधिकं पञ्चाशीत्यधिक सागरोपमशतं नरभवयुतमासामबन्धस्थितिः परमा । अयमर्थः-यथा किल कश्चिद् जन्तुस्तमो १ मिथ्यात्वात् सङ्क्रान्तिरविरुद्धा भवति सम्यक्त्वमिश्रयोः मिश्राद्वा द्वयोः सम्यक्त्वाद् मिथ्यात्वं न पुनमिश्रम् ॥ २ पल्यानि त्रीणि भोगावनौ भवप्रत्ययं पल्यमेकम् । सौधर्म सम्यक्त्वेन नरभवे सर्वविरत्या ॥ मिथ्यात्वी भवप्रत्ययाद ग्रेवेय के सागराणि एकत्रिंशत् । अन्तमुहूर्तोनानि सम्यक्त्वं तस्मिल्लब्ध्वा ।। विरतिमन्नरमवान्तरितोऽनुत्तरसुरस्त्वतराणि षटषष्टिम् । मिश्रं मुहूर्तमेकं स्पृष्ट्वा मनुष्यः पुनर्विरतः।। षट्षष्टिः मतराणां अच्युते विरतिमन्नरमावान्तरितः । तिय-नरत्रिक-उद्योतानां एष कालोऽबन्धे ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy