SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ४८-५० ] शतकनामा पश्चमः कर्मग्रन्थः । न भवत्येव, यतो भिन्नग्रन्थिकस्यैव हीनो बन्धः स्यात्, अभव्यसंज्ञी चोत्कृष्टतोऽपि ग्रन्थि - प्रदेशमेवाभ्येति, तदनन्तरं ग्रन्थि प्राप्य भूयोऽपि निवर्तते निवर्त्य च प्रभूतं स्थितिबन्धं करोतीति ॥४८॥ " निरूपितः सर्वगुणस्थानकेषु स्थितिबन्धः । साम्प्रतमेकेन्द्रियादिजीवानाश्रित्य स्थितिबन्धानामेवात्पबहुत्वं गाथात्रयेणाह - जइलहुबंधो बायर, पज असंखगुण सुहुमपज्जऽ हिगो । एसि अपजाण लहू, सुहुमेअरअपजपज गुरू ५५ ॥४९॥ सर्वस्तोको यतिलघुबन्धो जघन्यस्थितिबन्ध इत्यर्थः, सूक्ष्मसम्पराये आन्तमौहूर्तिक एव भवतीति कृत्वा १ । ततो यतिलघुस्थितिबन्धाद् बादरपर्याप्तै केन्द्रियस्य जघन्यस्थितिबन्धोऽसङ्ख्यातगुणः २ । ततः सूक्ष्मपर्याप्तैकेन्द्रियस्य जवन्यस्थितिबन्धः " अहिगु” त्ति विशेषाधिकः ३ । ततः " एसिं" ति अनयोर्वादर - सूक्ष्मयोरपर्याप्तयोः “लघु" त्ति जघन्यस्थितिबन्धोऽधिको वाच्यः । अयमर्थः- ततः सूक्ष्मपर्याप्तै केन्द्रियस्य जघन्यस्थितिबन्धाद् बादरापर्याप्तै केन्द्रियस्य जघन्य - स्थितिबन्धो विशेषाधिकः ४, ततः सूक्ष्मापर्याप्तै केन्द्रियस्य जघन्यस्थितिबन्धो विशेषाधिकः ५ । " मुहुमेयर अपजपज्ज गुरु" त्ति ततः सूक्ष्मापर्याप्तै केन्द्रियस्य "गुरु" त्ति उत्कृष्टः स्थितिबन्धो विशेषाधिकः ६, ततः "इयर" ति बादरापर्याप्ति केन्द्रियस्योत्कृष्टः स्थितिबन्धों विशेषाधिकः ७, ततः सूक्ष्मपर्याप्तैकेन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः ८, ततो बादरपर्याप्तै केन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः ६ ॥४६॥ लहु बिय पज्जअपज्जे, अपजेयर बिय गुरू हिगो एवं । ति चड असन्निसु नवरं, संखगुणो बियअमणपज्जे ||२०|| ततः "लहु" त्ति 'लघुः ' जघन्यः स्थितिबन्धः “बिय" त्ति द्वीन्द्रिये "पज्ज" ति पर्याप्ते वाच्यः । कियत्प्रमाणः १ इत्याह- ' "संखगुणो वियअमणपज्जे " इति वचनात् सङ्ख्यातगुण इत्यर्थः । ततस्तस्मिन्नेवापर्याप्तेऽधिको लघुः स्थितिबन्धः, ततोऽपर्याप्तेतरद्वीन्द्रिये गुरुः स्थितिबन्धोऽधिको वाच्यः। एवं द्वीन्द्रियोक्तप्रकारेण "ति" त्ति चीन्द्रिये पर्याप्ता-पर्याप्ते लघुस्थितिबन्धौ द्वौ त्रीन्द्रिये एव पर्याप्त - पर्याप्ते द्वौ गुरुस्थितिबन्धों वाच्यौ । “चउ" त्ति चतुरिन्द्रिये पर्याप्ता-पर्याप्ते लघुस्थितिबन्धौ द्वौ चतुरिन्द्रिये एवापर्याप्त-पर्याप्ते गुरुस्थितिबन्धौ द्वौ वाच्यौ । "असन्निसु” त्ति असंज्ञिनि पर्याप्ताऽपर्याप्ते लघुस्थितिबन्धौ द्वौ, असंज्ञिनि एवापर्याप्त-पर्याप्ते गुरुस्थितिबन्धौ वाच्यौ । किंप्रमाणाः पुनरेते स्थितिबन्धा वाच्याः ९ इत्याह - " अहिगु" त्ति 'अधिकाः' विशेषाधिका वाच्याः । किं सर्वेऽपि स्थितिबन्धा विशेषाधिका एव वाच्याः ? I
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy