SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः । परावर्तमानाः ११। यास्त्वन्यस्याः प्रकृतेर्वन्धमुदयमुभयं वाऽनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति ता न परावर्तन्त इति कृत्वाऽपरावर्तमाना उच्यन्ते १२ । यत् प्रत्यपादि विणिवारिय जा गच्छइ, बंधं उदयं व अन्नपगईए । -- सा हु परियत्तमाणी, अणिवारंती अपरियत्ता ।। ( पञ्चसं० गा० १६१) "चउहविवाग" त्ति चतुर्धा--क्षेत्र-जीव-भव-पुद्गलाश्रितत्वेन चतुःप्रकारो विपाकः विपचनं म्वशक्तिप्रदर्शनं यास ताश्चतुर्धाविपाका:-क्षेत्रविपाकाः १ जीव विपाकाः २ भवविपाकाः ३ पुद्गलविपाकाः ४ प्रकृतीर्वक्ष्ये । तथा "बंधविह" ति विधानानि विधाः-भेदाः, बन्धस्य विधा बन्धविधा:-प्रकृतिवन्ध १ स्थितिबन्ध २ रसबन्ध ३ प्रदेशबन्ध ४ लक्षणा स्तान वक्ष्ये । अत्र च मोदकदृष्टान्तं पूर्वसूरयोव्यावर्णयन्ति, यथा-वातापहारिद्रव्यनिचयनिष्पन्नो मोदकः प्रकृत्या वातमपहरति, पित्तापहद्रव्यनिवृत्तः पित्तम् , श्लेष्मापहद्रव्यसञ्जनितः श्लेष्माणम इत्यादि स्थित्या तु स एव कश्चिद् दिनमकमवतिष्ठते अपरस्तु दिनद्वयम् , अन्यस्तु दिवसत्रयम् , यावद् मासादिकमपि कालं कश्चिदवतिष्ठते, ततः परं विनश्यति २; स एवानुभावेन-रसपर्यायेण स्निग्ध-मधुरस्वादिलक्षणेन कश्चिदेकगुणानुभावः, अपरस्तु द्विगुणानुभावः, अन्यस्तु त्रिगुणानुभावः ३ इत्यादिः प्रदेशाः कणिक्कादिद्रव्यप्रमाणरूपास्तैः प्रदेशैः स एव कश्चिदेकप्रसृतिप्रमाणः, अपरन्तु प्रसूतिद्वयमानः, अन्यः पुनः प्रसृतित्रयप्रमाणः४ इत्यादि । एवं कर्मापि ज्ञानावरणादिपुद्गलैर्निवृत्तं प्रकृत्या किश्चिद् ज्ञानमावृणोति, किश्चिद्दर्शनं, किश्चित्तु सुख-दुःखे जनयति १ इत्यादि; स्थित्या तु तदेव त्रिंशत्सागरोपमकोटीकोटयादिकालावस्थायि भवति २; अनुभावतस्तु तदेव एकस्थानिकद्विस्थानिक-तीव्र-मन्दादिकरसयुक्तम् ३, प्रदेशतस्तु तदेवाल्प बहुप्रदेशनिष्पन्नं स्याद् ४ इति । एष च प्रकृत्यादिस्वभावश्चतुर्विधोऽपि कर्मण उपादानकाल एव बध्यत इति बन्धश्चतुर्विधः सिद्धो भवति । तथा डमरुकमणिन्यायेन बन्धशब्द इहापि योज्यते, बन्धस्वामिनो वक्ष्ये, कः कस्याः प्रकृतेः स्थितेर्वा कः कस्य रसस्य तीव्र-मन्दादिरूपस्य कश्च कस्य प्रदेशाग्रस्य बघन्यत्वादिलक्षणस्य बन्धकः १ इत्यादि स्वामित्वेन वक्ष्ये । चशब्दाद् उपशमश्रेणि-क्षपकश्रेण्यादिकं [च] वक्ष्य इत्यनेनाभिधेयमाह । सम्बन्ध प्रयोजने तु सामर्थ्यगम्ये । तत्र सम्बन्धः साध्य-साधनलक्षण उपाय-उपेयलक्षणो गुरुपर्वक्रमलक्षणो वा वेदितव्यः। प्रयोजनं तु प्रकरणकत - श्रोत्रोरनन्तर-परम्परभेदेन द्वेधा । तत्र प्रकरणकर्तु रनन्तरं सत्त्वानुग्रहः प्रयोजनम् , श्रोतुश्वानन्तरं प्रयोजनं प्रकरणार्थपरिज्ञानम् । परम्परप्रयोजनं तु द्वयोरपि परमपदप्राप्तिरिति । तथा चोक्तम् १ विनिवार्य या गच्छन्ति बन्धमुदयं वा अन्यप्रकृतेः। साहि परावर्त्तमाना अनिवारयन्ती अपरिवृत्ता ।। २ सं०२०स्ता व०॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy