SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [गाथा ‘क्षिप्यते' निधीयते शलाकापल्ये द्वितीये शलाकासंज्ञक एकसङ्ख्य एव सर्पपः, स च नानवस्थित पल्यसत्कः किन्त्वन्य एवेत्यवसीयते, "पुण भरिए तम्मि तह खीणे " ( गा० ७४) इति सूत्रावयवस्य सामस्त्य रिक्तीकरण प्रतिपादनपरत्वात् । अन्ये स्वनवस्थितपल्यसत्क एव क्षिप्यते इत्याचक्षते, तत्त्वं तु केवलिनो विदन्तीति । आह किमिति द्वितीयपल्य एव निष्ठिते सत्येकस्य सर्पपस्य शलाकापल्ये प्रक्षेपणमभिहितं यावता प्रथमपल्येऽपि निष्ठिते तत्रैकस्य सर्वपस्य प्रक्षेप युज्यते इति, तदयुक्तम्, अभिप्रायापरिज्ञानात्, यतोऽनवस्थितपल्यशलाका भिरेवासौ पूरणीयः, प्रथमच लक्षयोजनविस्तृतत्वे नावस्थितपरिमाणतयाऽनवस्थित एव न भवतीत्यतो द्वितीयाद्यनवस्थितपल्यंशलाका एव तत्र प्रक्षेपमर्हन्तीति । न चैतत् स्वमनीषिकाविजृम्भितम् यदुक्तमनुयोगद्वारेषु --- 9 २३८ 'से णं पल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थ एहिं दीवसमुद्दाणं उद्धारे धिप्पाड, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं खिष्पमाणेहिं खिप्पमाणेहिं जावइया णं दीवसमुद्दा तेहिं मिद्धत्थर हिं अफुन्ना एस णं एवइए खित्ते पल्ले आइट्ठे । से णं पल्ले सिद्धन्थयाणं भरिए, तओ णं तेहिं सिद्धत्थ एहि दीवमुद्दाणं उद्धारे धिप्पड़, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं खिष्पमाणेहिं खिप्पमाणेहिं जावइया णं दीवसमुद्दा तेहिं सिद्धत्थ एहिं अफुन्ना एस f एवइए खित्तं पल्ले पढमा सलागा (पत्र २३५ - २ ) इति । श्च "पल्लाणवडिय" (गा० ७३ ) इत्यादिगाथायां प्रथमस्यानवस्थितव्यपदेशोऽसौ योग्यतामात्रेण राज्यार्हकुमारस्य राजन्यपदेशवद् द्रष्टव्यः । " इय सलागखवणेण पुन्नो बीओ य" त्ति 'इति' अमुना पूर्वप्रदर्शितशलाकाक्षेपणप्रकारेण 'द्वितीयश्च' शलाकापल्यः पूर्णो भृतो भवति सशिख इति यावत् । इयमत्र भावना - ततो यस्मिन् द्वीपे समुद्रे वा स एव द्वितीय पल्यो निष्ठां गतस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते पूर्ववत् सर्पपैः पूर्यते, ततस्तं तावत्प्रमाणं पल्यमुत्पाट्य ततो निष्ठितस्थानात् परतो द्वीपसमुद्रेष्वेकैकं सर्पपं प्रक्षिपेत् यावदसौ निष्ठितो भवति, ततो द्वितीया शलाका सर्पपरूपा शलाकापल्ये प्रक्षिप्यते । ततोऽपि यस्मिन् द्वीपे समुद्र वा स एष तृतीयोऽनवस्थितपल्यो निष्टितस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रस्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते पूर्ववत् सर्परापूर्यते, ततस्तं तावत्प्रमाणं " १ स पल्यः सिद्धार्थ कैभृतः, ततस्तैः सिद्धार्थ के द्वीपसमुद्राणां उद्धारो गृह्यते, एको द्वीपे एकः समुद्रे एको एकः समुद्रे एवं क्षिप्यमाणैः क्षिप्यमाणैः यावन्तो द्वीपसमुद्रास्तैः सिद्धार्थकः स्पृष्टा एष एतावान् क्षेत्रे पल्य आदिष्टः । स पल्यः सिद्धार्थकेभृतः ततस्तैः सिद्धार्थकेपिसमुद्राणामुद्धारो गृह्यते, एको द्वीपे एकः समुद्रे एको द्वीपे एकः समुद्रे एवं क्षिप्यमाणैः क्षिप्यमाणैः यावन्तो द्वीपसमुद्रास्त: सिद्धार्थकैः स्पृष्टा एषा एतावति क्षेत्रे पल्ये प्रथमा शलाका ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy