SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २२६ ] देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [ गाथा विधां गति प्रतीत्यैकप्रकारेण चतुष्कसंयोगेन चत्वारो भेदा निरूपिताः । अधुना प्रकारान्तरेण चतुष्कसंयोग एव चतुरो भेदानाह-"उवसमजुएहिं वा चउ" ति वाशब्दोऽथवाशब्दार्थः, अथवा क्षायिकभावाभावे औपशमिकेन प्रदर्शितस्वरूपेण भावेन युतैः-कलितैः पूर्वोक्तैः क्षायोपशमिकपारिणामिकौदयिकैरेव निष्पन्नस्य सानिपातिकमावस्य गतिचतुष्कं प्रतीत्य 'चत्वारः' चतुःसङ्ख्या भेदा भवन्तीति शेषः । तद्यथा-क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वम् , औदयिकी 'नरकगतिः, औपशमिकं सम्यक्त्वमित्येको नरकगत्याश्रितश्चतुष्कसंयोगः । एवं तिर्यङ्मनुष्यदेवगत्यभिलापेन त्रयो भङ्गा अन्येऽपि वाच्याः । तदेवमभिहिता गतिचतुष्टयमाश्रित्यैकेन त्रिकसंयोगेन द्वाभ्यां चतुष्कसंयोगाभ्यां द्वादश विकल्पाः । सम्प्रति शुद्धसंयोगत्रय. स्वरूपं शेषभेदत्रयं निरूपयितुमाह-"केवलि परिणामुदयखइए" ति 'केवली' केवलज्ञानी पारिणामिकोदयिकक्षायिके सानिपातिकभेदे त्रिकसंयोगरूपे वर्तते, यतस्तस्य पारिणामिकं जीवत्वादि औदयिकी मनुजगतिः क्षायिकाणि ज्ञानदर्शनचारित्रादीनि । तदेवमेकस्त्रिकसंयोगः केवलिषु सम्भवतीति ॥६७।। खयपरिणामे सिडा, नराण पणजोगुवसमसेढीए । इय पनर सन्निवाइयर्भया वीसं असंभविणो ॥६८|| 'सिद्धाः' निर्दग्धसकलकर्मेन्धनाः क्षायिकपारिणामिके सान्निपातिकभेदे द्विकसंयोगरूप वर्तन्ते । तथाहि-सिद्धानां क्षायिकं ज्ञानदर्शनादि, पारिणामिक जीवत्वमिति द्विकसंयोगो भवति । 'नराणां' मनुष्याणां पञ्चकसंयोगः सानिपातिकभेद उपशमश्रेण्यामेव प्राप्यते, यतो यः क्षायिकसम्यग्दृष्टिर्मनुष्य उपशमश्रेणी प्रतिपद्यते तस्यौपशमिकं चारित्रं क्षायिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि औदयिकी मनुजगतिः पारिणामिकं जीवत्वं भव्यत्वं चेति । 'इति' अमुना पूर्वदर्शितप्रकारेण गत्यादिषु संयोगषट्कचिन्तनलक्षणेन परस्परविरोधाभावेन सम्भविन: पञ्चदश सानिपातिकभेदाः षष्ठभावविकल्पाः प्ररूपिता इति शेषः । "वीसं असंभविणो" त्ति विंशतिसङ्ख्याः संयोगा असम्भविनः, प्ररूपणामात्रभावित्वेन न जीवेषु तेषां सम्भवोऽस्तीति । ननु षड्विंशतिभेदाः प्राक् प्रदर्शिताः, इह तु पञ्चदशानां विंशतेश्च मीलने पञ्चत्रिंशत्सङ्ख्या भेदाः प्राप्नुवन्तीति कथं न विरोधः १, अत्रोच्यते-ननु विस्मरणशीलो देवानांप्रियः, यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः पञ्चदश भवन्ति, मौला व्यादिसंयोगास्तु पडेव । तथाहि–एको द्विकसंयोगः, द्वौ द्वौ त्रिकचतुष्कसंयोगौ, एकः पञ्चकसंयोग इति घण्णां विंशत्या मीलने षड्विंशतिसङ्ख्य वोपजायत इति नात्र कश्चन विरोध इति ।। ६८॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy