SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ५८-६२ ] षडशीतिनामा चतुर्थः कर्मग्रन्थः । [ २२१ उपशान्तमोहगुणस्थानके पुनरष्टावपि कर्मप्रकृतयः सत्तायां प्राप्यन्ते, सप्तोदये मोहनीयोदयाभावादिति भावः || ६०॥ उक्ता सत्तोदयस्थान योजना | साम्प्रतमुदीरणास्थानानि गुणस्थानकेषु निरुरूपयिषुराह उहरंति पमत्तंता, सगह मीसह वेयआउ विणा । छग अपमत्ताइ तओ, छ पंच सुहुमो पणुवसंतो ।। ६१ ।। मिध्यादृष्टिप्रभृतयः प्रमत्तान्ता यावद् अद्याप्यनुभूयमानभवायुरावलिकाशेषं न भवति तावत् सर्वेऽप्यमी निरन्तरमष्टावपि कर्माण्युदीरयन्ति । आवलिकावशेषे पुनरनुभूयमाने भवायुषि सप्तैव, 1. आवलिकावशेषस्य कर्मण उदीरणाया अभावात् तथास्वाभाव्यात् । " मीसट्ट" त्ति सम्यग्मियादृष्टिः पुनरष्टावेव कर्माण्युदीरयति, न तु कदाचनापि सप्त, सम्यग्मिथ्यादृष्टिगुणस्थान के वर्तमानस्य सत आयुष आवलिकावशेषत्वाभावात् । स ह्यन्तमुहूर्ताविशेषायुष्क एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात् प्रतिपद्यत इति । 'अप्रमत्तादयस्त्रयः' अप्रमत्तापूर्व करणानिवृत्तिवादरलक्षणा 'वेद्यायुर्विना ' वेदनीयायुषी अन्तरेण पट् कर्माणि उदीरयन्ति तेषामतिविशुद्धतया वेदनीयायुषोरुदीरणायोग्याध्यवसायस्थानाभावात् । “छ पंच सुहुमो" ति सूक्ष्मः' सूक्ष्मसम्परायः षट् पञ्च वा कर्माण्युदीरयति । ] तत्र षड् अनन्तरोक्तानि तानि च तावद् उदीरयति यावद् मोहनीयमावलिकावशेषं न भवति । आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात् शेषाणि पञ्च कर्माण्युदीरयति । " पणुवस्तु" ति उपशान्तमोहः पञ्च कर्मायुदीरयति न वेदनीयायुर्मोहनीय कर्माणि तत्र वेदनीयायुषोः कारणं प्रागेवोक्तम्, मोहनीयं तूदयाभावाद् नोदीर्यते, "वेद्यमानमेवोदीर्यते" इति वचनादिति ।। ६१ ।। पण दो खीण दु जोगी णुदीरगु अजोगि थेव उवसंता । संखगुण खोण सुहुमा, नियहिअपुव्व सम अहिया ॥ ६२ ॥ क्षीणमोहोऽनन्तरोक्तानि पञ्च कर्माण्युदीरयति । तानि च तावद् उदीरयति यावद् ज्ञानावरणदर्शनावरणान्तरायाण्यावलिकाप्रविष्टानि न भवन्ति, आवलिकाप्रविष्टेषु तु तेषु तेषामप्युदी - रणाया अभावात् । द्वे एव नामगोत्रलक्षणे कर्मणी उदीरयति । "दु जोगि' त्ति 'द्वे' कर्मणी नामगोत्राये योगा नाम - मनोवाक्कायरूपा विद्यन्ते यस्य स योगी - सयोगिकेवली उदीरयति, न शेषाणि । घातिकर्मचतुष्टयं तु मूलत एव क्षीणमिति न तस्योदीरणासम्भवः, वेदनीयायुषो - स्तूदीरणा पूर्वोक्तकारणादेव न भवति । "खुदीरगु अजोगि" ति अयोगिकेवली, न कस्यापि कर्मण उदीरकः, योगसव्यपेक्षत्वाद् उदीरणायाः, तस्य च योगाभावादिति ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy