________________
२१८
देवेन्द्रसूरिविरचितम्वोपज्ञटीकोपैतः
[ गाथा ९ । दश बन्धहेतवः सूक्ष्मसम्पराये १० । नव बन्धहेतव उपशान्तमोहे ११ । नव बन्धहेतवः क्षीणमोहे १२ । सप्त बन्धहेतवः सयोगिकेवलिगुणस्थाने १३ । 'न तु' नैवायोगिन्येकोऽपि बन्धहेतुरस्ति, बन्धाभावादेवेति ।।५४ ।। अथामनेव बन्धहेतून भावयन्नाह--
पणपन्न मिच्छि हारगदुगूण सामाणि पन्न मिच्छ विणा।
मिस्मदुगकम्मअण विणु तिचत्त मीसे अह लचत्ता ।। ५५ ॥ मिथ्यादृष्टौ आहारकाहारकमिश्रलक्षणद्विकोनाः पञ्चपञ्चाशद् बन्धहेतवो भवन्ति, आहारकद्विकवर्जनं तु "संयमवतां तदुदयो नान्यस्य" इति वचनात् । सारवादने मिथ्यात्वपञ्चकेन विना पञ्चाशद् बन्धहेतवो भवन्ति, पूर्वोक्तायाः पञ्चपञ्चाशतोमिथ्यात्वपञ्च केऽपर्न ते पञ्चाशद् बन्धहेतवः सासादने द्रष्टव्याः । मिश्रे त्रिचत्वारिंशद् बन्धहेतवो भवन्ति, कथम् ? इत्याह-'मिश्रद्विकम् ' औदारिकमिश्रवैक्रियमिश्रलक्षणं "कम्म" त्ति कार्मणशरीरं "अण" ति अनन्तानुबन्धिनस्तैर्विना । इयमत्र भावना-"न सम्ममिच्छो कुणइ कालं" इति वचनात सम्यग्मिथ्यादृष्टे: परलोकगमनाभावाद् औदारिकमिश्रक्रियमिश्रद्विकं कार्मणं च न सम्भवति, अनन्तानुवन्ध्युदयस्य चास्य निषिद्धत्वाद् अनन्तानुबन्धिचतुष्टयं च नास्ति, अत एतेषु सप्तसु पूर्वोक्तायाः पश्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशद् बन्धहेतवो मिश्रे भवन्ति । 'अथ अनन्तरं षट्चत्वारिंशद् बन्धहेतवो भवन्ति ॥ ५५ ॥
- सदुमिस्सकम्म अजए, अविरहकम्मुरलमीसबिकसाए ।
मुत्तु गुणचत्त देसे, छवीस साहारदु पमत्ते ।। ५६ ।।
क्य ? इत्याह-'अयते' अविरते, कथम् ? इत्याह-"सदुमिस्सकम्म" ति द्वयोनिश्रयोः समाहारो द्विमिश्रम् , द्विमिश्रं च कार्मणं च द्विमिश्रकार्मणम् , सह द्विमिश्रकामणेन वर्तते या त्रिचत्वारिंशत् । इयमत्र भावना-अविरतसम्यग्दृष्टेः परलोकगमनसम्भवात् पूर्वापनीतमौदारिकमिश्रवैक्रियमिश्रलक्षणं द्विकं कार्मणं च पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्यते ततोऽविरते षट्चत्वारिंशद् बन्धहेतवो भवन्ति । तथा 'देशे' देशविरते एकोनचत्वारिंशद् बन्धहेतवो भवन्ति, कथम् ? इत्याह-अविरतिः--प्रसासंयमरूपा कार्मणम् औदारिकमिश्रं द्वितीयकपायान- अप्रत्याख्यानावरणान् मुक्त्वा शेषा एकोनचत्वारिंशदिति । अत्रायमाशयः--विग्रहगतावपर्याप्तकावस्थायां च देशविरतेरभावात् कार्मणौदारिकमिश्रद्वयं न सम्भवति, सासंयमाद् विरतत्वात त्रसाविरतिर्न जाघटीति ।
ननु त्रसासंयमात् सङ्कल्पजाद् एवासौ विरतो न त्वारम्भजादपि तत् कथमसौ त्रसाविरतिः सर्वाऽप्यपनीयते ?, सत्यम् , किन्तु गृहिणामशक्यपरिहारत्वेन सत्यप्यारम्भजा साविरतिर्न विव