SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ४६-५२] षडशीतिनामा चतुर्थः कर्मग्रन्थः । २१५ 'बन्धस्य' ज्ञानावरणादिकर्मबन्धस्य मूलहेतवश्चत्वारः 'इति' अमुना प्रकारेण भवन्ति । केन प्रकारेण ? इत्याह- 'मिथ्यात्वाविरतिकषाययोगाः' तत्र मिथ्यात्वं - - विपरीतावबोधस्वभावम्, अविरतिः - सावद्ययोगेभ्यो निवृत्त्यभावः, कषाययोगाः - प्राग्निरूपितशब्दार्थाः । नन्वन्यत्र प्रमादोऽपि बन्धहेतुरभिधीयते यदवादि -- मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः । ( तत्त्वा० अ० ८ सू० १ ) इति स कथमिह नोक्तः ? उच्यते - मद्यविषयरूपस्य तस्याविरतावेवान्तर्भावो विवक्षितः । कपायाश्च पृथगेवोक्ताः, वैक्रियारम्भादिसम्भवी तु योगग्रहणेनैव गृहीत इत्यदोष इति ।। ५० ।। उक्ताश्चत्वारो मूलहेतवः । इदानीमुत्तरभेदान् प्रचिकटयिषुः प्रथमं मिथ्यात्वस्याविरतेश्वोतरभेदानाह अभयमभिगहियाऽऽभिनिवेसिग संसइयमणाभोगं । पण मिच्छ बार अविरइ, मणकरणानिगमु छजियव हो ।। ५१ ।। अभिग्रहेण -- इदमेव दर्शनं शोभनं नान्यद् इत्येवंरूपेण कुदर्शनविषयेण निवृत्तमाभिग्रहिकम् यद्वशाद् बोटिकादिकुदर्शनानामन्यतमं गृह्णाति । तद्विपरितमनाभिग्रहिकम्, यद्वशात् सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुपजायते । 'आभिनिवेशिकं' यद् अभिनिवेशेन निर्वृतम्, यथा गोष्टामाहिलादीनाम् । 'सांशयिक' यत् संशयेन निर्वृत्तम्, यद्वशाद् भगवदर्ह दुपदिष्टेष्वपि जीवाजीवादितदेषु संशय उपजायते, यथा- न जाने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यम् ? उतान्यथा ? इति । 'अनाभोगं' यद् अनाभोगेन निर्वृत्तम्, तच्चैकेन्द्रियादीनामिति । " पण मिच्छ" ति पञ्चप्रकारं मिथ्यात्वं भवतीति । द्वादशप्रकाराऽविरतिः, कथम् ? इत्याह- मनःस्वान्तं, करणानि--इन्द्रियाणि पञ्च तेषां स्वस्वविषये प्रवर्तमानानामनियमः --अनियन्त्रणम्, तथा षण्णां - पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः - हिंसेति ॥ ५१ ॥ अभिहिता मिथ्यात्वाविरत्युत्तरबन्ध हेतवः । सम्प्रति 'कषाययोगोत्तरबन्धहेतूनाह--- नव सोल कसाया पनर जोग इथ उत्तरा ड सगवन्ना | इगचपणतिगुणेसु चउतिदुइ गपचओ बंधो ॥ ५२ ॥ स्त्री वेदपुरुषवेदनपुंसक वेदहास्य रत्य रतिशोकभयजुगुप्सारूपा नव नोकषायाः, ते च कषाय सहचरितत्वाद् उपचारेणेह कषाया इत्युक्ताः । ' षोडश कषायाः, अनन्तानुबन्धिक्रोधादयः । नोकषायकषायस्त्ररूपं च सविस्तरं स्वोपज्ञकर्मविपाकटीकायां निरूपितमिति तत एवावधारणीयम् । 'पञ्चदश योगाः ' अत्रैव व्याख्यातस्वरूपाः । 'इति' अमुना प्रदर्शितप्रकारेण पञ्चद्वादशपञ्चविंशतिपञ्चदशलक्षणेन सप्तपञ्चाशत् पुनरुत्तरभेदा बन्धस्य भवन्तीति ।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy