SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [गाथा वणस्सइकाइयाणं अकाइयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा तसकाइया, तेउकाड्या असंखिज्जगुणा, पुढविकाड्या विसेसाहिया, आउकाइया विसेसाहिया, वाउकाइया विसेसाहिया, अकाइया अनंतगुणा, वणस्स इकाइया अनंतगुणा । ( प्रज्ञा० पद ३ पत्र १२२ -- २ ) अन्यत्राप्युक्तम् २०४ "थोवा य तसा तत्ता, तेउ असंखा तओ विसेसहिया । कमसो भूदगवाऊ, अकायहरिया अनंतगुणा | (जीवस० गा० २७६ ) "अकाय " त्ति सिद्धाः । तेभ्यो वायुकायिकेभ्यः ''वणणंत" त्ति वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वाद् वनस्पतिकायिकानामिति ॥ ३८ ॥ सम्प्रति योगेषु वेदेषु अल्पबहुत्वं प्रचिकटयिपुराह ---- भणवयणकायजोगी, थोवा अस्संखगुण अनंतगुणा । पुरिसा थोवा इत्थी, संखगुणाऽणंतगुण कीवा ॥ ३९ ॥ मनोयोगिनः स्तोकाः, संज्ञिपञ्चेन्द्रियाणामेव मनोयोगित्वात् । तेभ्यो वाग्योगिनोऽसङ्ख्यातगुणाः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां वाग्योगिनां मनोयोगिभ्योऽसङ्ख्यातगुणानां तत्र प्रक्षेपात् । वाग्योगभ्योऽपि काययोगिनोऽनन्तगुणाः, वनस्पतिकायिकानामप्यनन्तानां तत्र प्रक्षेपादिति । आह च- एएसि णं भंते! जीवाणं सजोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अजोगीण य कयरे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वथोवा मणजोगी, व जोगी असंखेज्जगुणा, अजोगी अनंतगुणा, कायजोगी अनंतगुणा, सजोगी विसेसाहिया । ( प्रज्ञा० पद ३ पत्र १३४ -- १) तथा स्त्र्यादिभ्यः पुरुषाः स्तोकाः । तेभ्यः स्त्रियः सङ्ख्यातगुणाः । उक्तं च- १ स्तोकाइच त्रसास्ततस्तेजस्कायिका असङ्ख्ये यगुणास्ततः विशेषाधिकाः । क्रमशो भूदकवायवोऽकायवनस्पतिकायिका अनन्तगुणाः ।। २ एतेषां भदन्त ? जीवानां सयोगिनां मनोयोगिनां वाग्योगिनां काययोगि नामयोगिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका मनोयोगिनः, वाग्योगिनोऽसङ्खये यगुणाः, अयोगिनोऽनन्तगुणाः, काययोगिनोऽनन्तगुणाः, सयोगिनो विशेषाधिकाः ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy