SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८६ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः [गाथा तन्मिश्रसहिताः सन्त एकादश योगा भवन्ति, देशविरतानामम्बडादीनां वैक्रियलब्धिमतां वैक्रियद्विकसम्भवात् । तथा त एव नव पूर्वोक्ताः 'सकार्मणौदारिकमिश्राः' सह कार्मणौदारिकमिश्राभ्यां वर्तन्त इति सकार्मणौदारिकमिश्राः सन्त एकादश योगा यथाख्यातसंयमे भवन्ति । अयमर्थःमनोयोगचतुष्टयवाग्योगचतुष्टयकामणोदारिकद्विकलक्षणा एकादश योगा यथाख्याते भवन्ति । तत्र मनोवाक्चतुष्कोदारिकयोगाः सुज्ञाना एव । कार्मणमोदारिकमिश्र तु यथाख्यातसंयमश्रीकुलगृहस्य भगवतः केवलिनः सम्भवति, तस्य हि समुद्घातगतस्य तृतीयचतुर्थपञ्चमसमयेषु कार्मणम् , "कार्मणशरीरयोगी चतुर्थक पञ्चमे तृतीये च ।" (प्रश० का० २७७) इति वचनात , द्वितीयषष्ठसप्तमसमयेष्वोदारिकमिश्रम्, “मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥" (प्रश० का० २७६ ) इति वचनाद् अवाप्यत इति यथाख्यातसंयमे द्वयोरपि सम्भवात् । । अथ विनेयजनानुग्रहाय केवलिसमुद्घातस्वरूपमभिधीयते-तत्र सम्यग् अपुनर्भावेन उत्प्रावल्येन कर्मणो हननं-घातः प्रलयो यस्मिन् प्रयत्नविशेषे स समुद्घातः । अयं च केवलि. समुद्घातोऽष्टसामयिकः, तं च प्रारभमाणः प्रथममेवाऽऽयोजिकाकरणमान्तमौहर्तिकमुदौरणावलिकायां कर्मप्रक्षेपव्यापाररूपमभ्येति । अथाऽऽयोजिकाकरणमिति कः शब्दार्थः ? उच्यते"आङ मर्यादायाम्" आ-मर्यादया केवलिदृष्टया योजनं-शुभाना योगानां व्यापारणमायो. जिका, 'भावे" (सि० ५-३-१२२ ) णकः, तस्याः करणमायोजिकाकरणम् । आह च-- 'कइसमइए णं भंते ! आओजीकरणे पन्नत्ते ! गोयमा ! असंखेज्जसमइए अंतोमुहुत्तिए आओजीकरणे पन्नत्ते ।। (प्रज्ञापनापत्र ६०१-१) अयं कृतकृत्योऽपि केवली किमर्थ समुद्घातं करोति ? इति चेद् , उच्यते-वेदनीयनामगोत्राणामायुषा सह समीकरणार्थम् । यदाह भगवान् श्रीभद्रबाहुस्वामी 'नाऊण वेयणिज्ज, अइबहुयं आउयं च थोवागं । गंतूण समुग्घायं, खवेइ कम्मं निरवसेसं ॥ (आ. नि. गा. ९५४ ) प्रज्ञापनायामप्युक्तम् कम्हा णं भंते ! केवली समुग्घायं गच्छइ ! गोयमा ! केवलिस्स चत्तारि कम्मंसा अक्खीणा अवेइया अणिजिन्ना भवन्ति । तं जहा-वेयणिज्जे आउए नामे गोए । सव्वबहुए से वेयणिज्जे १ कतिसामयिक मदन्त ? आयोजिकाकरणं प्रज्ञप्तम् ? गौतम ? असङ्ख्य यसामयिकमान्तमौहूर्तिकम् आयोजिकाकरणं प्रज्ञप्तम् ।। २ ज्ञात्वा वेदनीयं अतिबहुकं भायुष्कं च स्तोकम् । गत्वा समुद्घातं क्षपयति कर्म निरवशेषम ॥ ३ कस्माद् मदन्त ? केवनी समुद्घातं गच्छति ? गौतम ? केवलिनश्चत्वारः कर्माशा अक्षीणा भवेदिता भनिर्जीर्णा भवन्ति । तद्यथा--वेदनीयं आयुष्कं नाम गोत्रम् । सर्वबहुकं तस्य वेदनीयं कर्म भवति, सर्वस्तोकं तस्यायुःकर्म भवति, विषमं समं करोति, बन्धनैः स्थितिभिश्च, विषमस्य समकरणाय बन्धनैः स्थितिभिश्च एवं खलु केवली समुद्घातं गच्छति ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy