SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १२-१३ ] षडशीतिनामा चतुर्थः कर्म ग्रन्थः । १६१ मिति यत्तद् यथाख्यातम् । " देसजय" त्ति देशे - सङ्कल्प निरपराधत्र सवधविषये यतं - यमनं संयमो यस्य स देशयतः सम्यग्दर्शनयुत एकाणुव्रतादिधारी, अनुमतिमात्र श्रावक इत्यर्थः । यदाह श्रीशिवशर्मसूरिवरः कर्मप्रकृतौ --- "एगव्वयाइ चरमो, अणुममित्त त्ति देसाई || ( गा० ३४० ) “अजय" त्ति न विद्यते यतं विरतं विरतिर्यस्य सोऽयतः सर्वथा विरतिहीनः । तथा दर्शनशब्दस्य प्रत्येकं सम्बन्धात् चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शन केवलदर्शनरूपाणि चत्वारि दर्शनानि । तत्र चक्षुषा दर्शनं-वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् १, अचक्षुषा चक्षुर्वर्जशेपेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं - सामान्यांशात्मकं ग्रहणं तद् अचक्षुर्दर्शनम् २, अवधिना-रूपद्रव्यमर्यादया दर्शनं- सामान्यांशग्रहणमवधिदर्शनम् ३, केवलेन - संपूर्ण वस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं-- सामान्यांशग्रहणं तत् केवलदर्शनम् ४ इति । किंरूपाण्येतानि दर्शनानि ? अत आह-- 'अनाकाराणि' सामान्याकारयुक्तत्वे सत्यपि न विद्यते विशिष्टव्यक्त आकारो येषु तान्यनाकाराणि । भावार्थ: प्रागेवोक्त इति ॥ १२ ॥ किंव्हा नीला काऊ, तेऊ पम्हा य सुक्क. भव्वियरा । वेग खड्गुवसम मिच्छ मीस सासाण सन्नियरे || १३ ॥ इह षोढा लेश्या - कृष्ण लेश्या नीललेश्या कापोतलेश्या तेजोलेश्या 'पद्मलेश्या 'चः' समुज्च्चये व्यवहितसम्बन्धश्च, स च शुक्ललेश्या च इत्यत्र योज्यः / ' भव्यः' मुक्तिगमनाई : 'इतर ः ' अभव्यः कदाचनापि सिद्धिगमनानर्हः । " वेयग" त्ति 'वेदकं' सम्यक्त्वपुद्गलवेदनात् क्षायोपशमिकमित्यर्थः । तत्रोदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन विष्कम्भितोदयस्वरूपेण यद् निर्वृत्तं तत् क्षायोपशमिकम् । उक्तं च मिच्छत्तं नमुइन्नं तं खीणं अणुदियं च उवसंतं । मीसीभावपरिणयं, वेइज्जंतं खओवसमं । ( विशेषा० गा० ५३२ ) तथा “खइग” त्ति क्षयेण - अत्यन्तोच्छेदेन त्रिविधस्याऽपि दर्शनमोहनीयस्य निर्वृतं क्षायिकम् । तच्च क्षपकश्रेण्यामेवं भवति * पढमकसाए समयं खवेइ अंतोमुहुत्तमित्तेणं 1 तत्तु च्चिय मिच्छत्तं, तओ य मीसं तओ सम्मं ॥ १ एकत्रतादिचरमः अनुमतिमात्र इति देशयतिः २०ष्टो व्यक्त आ० ४० ।। ३ मिध्यात्व यदुदीर्ण तम क्षीणमनुदितं चोपशान्तम् । मिश्रभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥ ४ प्रथमकषायान् समकं अपयति अन्तर्मुहूर्त्तमात्रेण । तत एव मिथ्यात्वं ततश्च मिश्रं ततः सम्यक्त्वम् ॥ २१.
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy