SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १२ ] षडशीतिनामा चतुर्थः कर्मग्रन्थः । 'ओसप्पिणीऍ दोसु, जम्मणओ 'तीसु संतिभावेणं । उपिणि विवओ, जम्मणओ संतिभावेणं । ( पञ्चव० गा० १४८७ ) नोउत्सर्पिण्यवसर्पिणीरूपे चतुर्थारिकप्रतिभागे काले न सम्भवन्ति, महाविदेहक्षेत्रे तेषामसम्भवात् । चारित्रद्वारे - संयमद्वारेण मार्गणा । तत्र सामायिकस्य च्छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समानपरिणामत्वात्, ततोऽसङ्घये यलोकाकाशप्रदेशप्रमाणानि संयम स्थानान्यतिक्रम्योर्ध्वं यानि संयमस्थानानि तानि परिहारविशुद्धियोग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानान्यसङ्ख्ये यलोकाकाशप्रदेशप्रमाणानि तानि प्रथमद्वितीयचारित्राविरोधीनि तेष्वपि सम्भवात् । तत ऊर्ध्वं यानि सङ्ख्यातीतानि संयमस्थानानि तानि सूक्ष्मसम्पराययथाख्यात चारित्रयोग्यानि । उक्तं च तुल्ला जहन्नठाणा, संजमठाणाण पढमबियाणं । - तत्तो असंखलोए, गंतु परिहारियट्ठाणा || ( पञ्चव० गा० १५३० ) " ते "वि असंखा लोगा, अविरुद्धा चेव पढमबीयाणं । उवरिं पितो असंखा, संजमठाणाउ दुहं पि || (पञ्चव० गा० १५३१) । [ १५५ तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु । यदा त्वतीयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिककल्पसमाप्त्यनन्तरमन्येष्वपि च चारित्रेषु सम्भवात् तेष्वपि च वर्तमानस्याऽतीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वात् । उक्तं च 3 • " सट्टा पडिवत्ती, अन्नेसु वि हुज पुन्वपडिवन्नो । तेसु वि वट्टंतो सो, तीयनयं पप्प वुच्चइ उ ।। (पञ्चव० गा० १५३२) तीर्थद्वारे - परिहारविशुद्धिको नियमतः तीर्थे प्रवर्तमान एव सति भवति, न तूच्छेदेऽनुवा तदभावे जातिस्मरणादिना । उक्तं च १ अवसर्पिण्यां द्वयोर्जन्मतस्तिसृषु सद्भावेन । उत्सर्पिण्यां विपरीतं जन्मतः सद्भावतः ॥ २तिसु अ संः पञ्चवस्तुके || ३ तुल्यानि जघन्यस्थानानि संयमस्थानयोः प्रथमद्वितीययोः । ततोऽसङ्ख्या लोकान् गत्वा परिहारिकस्थानानि ॥। ४०णाई प० क० ख० ग० घ० ङ० ॥ ४ तान्यपि असङ्ख्य नि लोकानि अविरुद्धान्येव प्रथमद्वितीययोः । उपर्यपि ततोऽसङ्ख्यातानि संयमस्थानानि द्वयोरपि ।। ५ ताणं वि असंखलो० पञ्च वस्तुके । ६ स्वस्थाने प्रतिपत्तिरन्येष्वपि भवेत् पूर्वप्रतिपन्नः । तेष्वपि वर्त्तमानः सोऽतीतनयं प्राप्य उच्यते तु ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy