________________
१-१०] षडशीतिनामा चतुर्थः कर्मग्रन्थः।
१४४ संपारः, कपमयन्ते-गच्छन्ति एभिर्जन्तव इति कषायाः; यद्वा कपस्यायः-लाभो येभ्यस्ते कपायाः ६। ज्ञातिर्ज्ञानम् , यद्वा ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानम् , सामान्यविशेषात्मक वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः ७। संयमन-सम्यगुपरमणं सावधयोगादिति संयमः, यद्वा संयम्यते नियम्यत आत्मा पापव्यापारसम्भारादनेनेति संयमः “संनिव्युपाद्यमः" (सि० ५.३-२५ ) इति सूत्रेणालप्रत्ययः, यदि वा सम्-शोभना यमा:-प्राणातिपातानृतभाषणाइत्तादानाब्रह्मपरिग्रहविरमणलक्षणा अस्मिन्निति संयमश्चारित्रम् ८ | दृश्यते-विलोक्यते वस्त्वनेनेति दर्शनम् , यदि वा दृष्टिदशनम् , सामान्यविशेषात्मके वस्तुनि सामान्यात्मको बोध इत्यर्थः ९। लिश्यते-श्लिष्यते कर्मणा सहाऽऽत्माऽनयेति लेश्या १० । भवति-परमपदयोग्यतामासादयतीति भव्यः-सिद्धिगमनयोग्यः भव्यगेयजन्यरम्यापात्याप्लाव्यं न चा" (सि. ५-१-७ ) इति कर्तरि यप्रत्ययः, सूत्रे च यकारलोपः प्राकृतत्वात् ११॥ "सम्म" ति सभ्य
शब्दः प्रशंमार्थोऽविरुद्धार्थो वा, सम्यग् जीवः, तद्भावः सम्यक्त्वम् , प्रशस्तो मोक्षाविरोधी वा प्रशमसंवेगादिलक्षग आत्मधर्म इति यावत् । यदाहुः श्रीभद्रबाहुस्वालिदा:
___ से य' सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे ।। (आव०नि० पत्र ८११-१) इत्यादि १२।।
संज्ञानं संज्ञा भतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते संज्ञिनः, "ब्रह्मादिभ्यस्तों" ( सि० ७-२-५ ) इति इन् प्रत्ययः, विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्विता इत्यर्थः १३ । ओजआहारलोमाहारकवलाहाराणामन्यतममाहारमाहारयति-गृह्णातीत्याहारः, "अच्" ( सि० ५-१-४९ ) इत्यच् [प्रत्ययः ] आहारक इत्यर्थः १४ । ओजआहारादीनां लक्षणमिदम्- ..
सरिरेणोयाहारो, तयाइ फासेण लोमाहारो। पक्खेवाहारो पुण, कावलिओ होइ नायव्यो ।। (प्रव० गा० ११८० ) ॥ ९ ॥ उक्तानि मूलभूतानि चतुर्दश मार्गणास्थानानि । इदानीमेतेषामेवोत्तरभेदानाह
सुरनरतिरिनिरयगई, इगबियतियचउपणिदि छकाया। भूजलजलणाऽनिलवणतसा य मणवयणतणुजोगा ॥१०॥
१ तच्च सम्यक्त्वं प्रशस्त सम्यक्त्वमोहनीयकर्माणु वेदनोपशमक्षयसमुत्थः प्रशमसंवेगादिल्लिङ्गः शुभ आत्मपरिणामः ॥ २ अतिप्रबलोऽयं लेखकदोषो यन्नोपलभ्यतेऽदः किन्तु ब्रीह्यादिभ्य इति । तत्त्वतस्तुशिखादिभ्य इनित्यनेन वेन् (सि०७-२-४ ) ।। ३ शरीरेणौजआहारस्त्वचा स्पर्शेन लोमाहारः । प्रक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः ।।