SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ -७ . ] षडशीतिनामा चतुर्थः कर्मप्रन्थः केवलदर्शन लक्षण केवलद्विकविहीनाः शेषा मतिज्ञानश्रुतज्ञानावविज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाचक्षुदर्शनावधिदर्शनरूपा अष्टावुपयोगा भवन्ति ॥ ६ ॥ उक्ता जीवस्थानेषु उपयोगाः । साम्प्रतं जीवस्थानेष्वेव लेश्याः प्रतिपिपादयिषुराह ६-७ सन्निदुगि छ लेस अपज्जवायरे पढम चउ ति सेसेसु । सत्तट्ठबंधुदीरण, संतुदया अट्ठ तेरससु ||७|| [ १४५ संज्ञिनो द्विकम् - अपर्याप्तपर्याप्तलक्षणं संज्ञिद्विकं तम्मिन्, संज्ञिन्यपर्याप्त संज्ञिनि पर्याप्ते चेत्यर्थः, पड् लेश्याः- कृष्णनीलकापोततेजः पद्मशुक्ललक्षणा भवन्ति । अपर्याप्तबादरे प्रथमाचतस्रः- कृष्णनीलका पोत तेजोरूपा भवन्ति । . तेजोलेश्या कथमस्मिन्नवाप्यते ? इति चेद् उच्यते - यदा , 'पुढवी आउवणस्स गब्भेपज्जत संखजीवीसु । सग्गणं वासो, सेसा पडिसेहिया ठाणा || ( वृ० सं० गा० १८० ) इति वचनात् कश्चनापि देवः स्वर्गलोकात् च्युतः सन् बादरैकेन्द्रियतया भूदकतरुषु मध्ये समुपद्यते तदा तस्य घण्टालालान्यायेन सा प्राप्यत इत्यदोषः । "ति सेसेसु" त्ति प्रथमा इत्यनुवर्तते, प्रथमास्तिस्रः - कृष्णनीलकापोतलक्षणाः 'शेषेषु " प्रागुक्तापर्याप्तपर्याप्त संज्ञिपञ्चेन्द्रियापर्याप्तबादरै केन्द्रिय वर्जितेषु अपर्याप्तपर्याप्तसूक्ष्मै केन्द्रिय २ द्वीन्द्रियस्त्रीन्द्रिय २ चतुरिन्द्रिया २ऽसंज्ञिपञ्चेन्द्रिय२पर्याप्तवाद र केन्द्रिय १ लक्षणेष्वेकादशसु जीवस्थानेषु भवन्ति ता नान्याः तेषां सदैवाऽशुभपरिणामत्वात्, शुभपरिणामरूपाश्च तेजोलेश्यादयः || 3 " तदेवं जीवस्थानकेषु लेश्या अभिधाय साम्प्रतमेतेष्वेव बन्धोदयोदीरणासत्ताख्यस्थानचतुष्टयमभिधित्सुराह - " सत्तट्ट बंधु" । इत्यादि । सप्त वा अष्टौ वा सप्ताष्टाः, “सुज्वार्थे सङ्ख्या सङ्खये ये सङ्ख्या बहुव्रीहि: ” (सि० ३-१-१९) इति सूत्रेण बहुव्रीहिसमासः, यथा द्वित्रा इत्या | बन्धश्व उदीरणा च बन्धोदीरणे सप्ताष्टानां बन्धोदीरणे सप्ताष्टबन्धोदीरणे त्रयोदशसु जीवस्थानेषु संज्ञिपर्याप्तवर्जितेषु शेषेषु भवतः । एतदुक्तं भवति - अपर्याप्तसूक्ष्मै केन्द्रिय १ पर्यासूक्ष्मै केन्द्रिया २९पर्याप्तिवाद र केन्द्रिय ३ / पर्याप्तवाद र केन्द्रिया ४ पर्याप्तद्वीन्द्रिय५ पर्याप्तद्वीन्द्रिया६पर्याप्तत्रीन्द्रिय ७ पर्याप्तत्रीन्द्रियाऽपर्याप्तचतुरिन्द्रिय ९ पर्याप्तचतुरिन्द्रिया १० पर्याप्त संज्ञि पञ्चेन्द्रिय ११ पर्याप्तासंज्ञिपञ्चेन्द्रिया १२ऽपर्याप्त संज्ञिपञ्चेन्द्रिय १३रूपेषु त्रयोदशसु जीवस्थानेषु सप्तानामष्टानां वा बन्धः, सप्तानामष्टानां वा उदीरणा । तथाहि - यदाऽनुभूयमानभवायुषस्त्रिभाग नवभागादिरूपे शेषे सति परभवायुर्बध्यते तदाऽष्टानामपिं कर्मणां बन्धः, शेषकालं त्वायुषो बन्धा१ पृथ्व्यब्वनस्पतिगर्भपर्याप्तसङ्ख्यातवर्षजीविषु । स्वर्गच्युतानां वासः शेषाणि प्रतिषिद्धानि स्थानानि ॥ १६
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy