________________
१४२ देवेन्द्रसूरिविरचितस्वोपझटीकोपेतः
[ गाथा व्यमित्यदोषः; यद्वा इहापर्याप्ता लब्ध्यपर्याप्तका एवान्तमुहर्तायुषो द्रष्टव्याः, ते च तिर्यङ्मनुष्या एव घटन्ते, तेषामेवान्तमुहूर्तायुष्कत्वसम्भवात् , न देवनारकाः, तेषां जघन्यतोऽपि दशवर्षसहस्रायुष्कत्वात् । लब्ध्यपर्याप्तका अपि च जघन्यतोऽपि इन्द्रियपर्याप्तौ परिसमाप्तायामेव म्रियन्ते नार्वाग् इत्युक्तमागमाभिप्रायेण । ततस्तेषां लब्ध्यपर्याप्तकानां शरीरपर्याप्त्या पर्याप्तानामौदारिकमेव शरीरमुपपद्यते न वैक्रियमित्यदोपः ।
__किश्चान्यमतकथनेनाऽयमभिप्रायः सूच्यते-यद्यपि तेषां शरीरपर्याप्तिः समजनिष्ट तथापि इन्द्रियोच्छ्वासादीनामद्याप्यनिष्पन्नत्वेन । शरीरस्यासम्पूर्णत्वाद् अत एव कार्मणस्याप्यद्यापि व्याप्रियमाणत्वाद् औदारिकमिश्रमेव तेषां युक्त्या घटमानकमिति ॥४॥
सव्वे सन्निजत, उस्लं सुहुमे सभासु(स) तं चउसु ।
बायरि' सविउव्विदुर्ग, पजसन्निसु बार उवओगा ॥५॥ 'सर्वे' पश्चदशापि योगा भवन्ति । तथाहि-चतुर्धा मनोयोगः चतुर्धा वाग्योगः सप्तधा काययोगः । क्व ? इत्याह-'संज्ञिपर्याप्ते' संज्ञी चासौ पर्याप्तश्च संज्ञिपर्याप्तः तस्मिन् संज्ञिपर्याप्ते ।
नन्वौदारिकमिश्रवैक्रियमिश्रकार्मणकाययोगाः कथं संक्षिपर्याप्तस्य घटन्ते तेषामपर्याप्तावस्थाभावित्वात् ?,. उच्यते-चैक्रियमिश्रं संयतादेक्रियं प्रारभमाणस्य प्राप्यते, औदारिकमिश्रकार्मणकाययोगौः तुः केवलिनः समुद्घातावस्थायाम् । यदाह भगवानुमास्वातिवाचकवरः
औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु ॥ कार्मणशरीरयोगी, चतुर्थके. पञ्चमे तृतीये च ।
(प्रश, का. २७६-७७) इति । 'पर्याप्ते' सूक्ष्मे सूक्ष्मैकेन्द्रिये औदारिककाययोगो भवति । पर्याप्तशब्दश्च "सव्वे सन्निपजत्ते" इति पदाद् डमरुकमणिन्यायेन सर्वत्र योज्यः । “चउसु"त्तिं चतुर्यु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंक्षिपञ्चेन्द्रियेषु पर्याप्तेषु तदेवौदारिकं भवति । किं केवलम् ? न इत्याह-'सभाष' सह भाषया असत्यामृषास्वरूपया' " 'विगलेसु असचमोसा" इति वचनाद् वर्तत इति सभाषम् । कोऽर्थः १ विकलत्रिकासंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु औदारिककाययोगाऽसत्यामृषाभाषालक्षणों द्वौ योगावित्यर्थः । यद् इत्यनुवर्तते, तद् औदास्किं सह वैक्रियद्विकेन-बैंक्रियक्रियमिश्रलक्षणेन वर्तत इति सवैक्रियद्विकं. बादरैकेन्द्रियपर्याप्ते भवति । अयमर्थः-बादस्कैन्द्रिये पर्याप्ते
१ विकलेंषु असत्यामृषा इतिः ॥