SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १४० देवेन्द्रसूरिविरचितस्योपज्ञटीकोपेतः [गाथा "सन्निअपजत्ते अजयजुय" ति । संज्ञिन्यपर्याप्ते तदेव पूर्वोक्तं मिथ्यादृष्टिसासादनलक्षणं गुणस्थानकद्वयमयतयुतं भवति । यमनं यतं- विरतिरित्यर्थः, न विद्यते यतं यस्य सोऽयतोऽविरतसम्यग्दृष्टिरित्यर्थः, तेन युतं-संयुक्तमयतयुतम् । इदमुक्तं भवति-संज्ञिन्यपर्याप्ते त्रीणि मिथ्यादृष्टि सासादनाऽविरतसम्यग्दृष्टिलक्षणानि गुणस्थानानि भवन्ति, न शेषणि सम्यग्मिथ्यादृष्टयादीनि, तेषां पर्याप्तावस्थायामेव भावात् । 'सन्निपज्जे सव्वगुण" त्ति संज्ञिनि पर्याप्ते सर्वाण्यपि मिथ्यादृष्टयादीनि अयोगिपर्यन्तानि गुणस्थानकानि भवन्ति, संज्ञिनः सर्वपरिणामसम्भवात् । अथ कथं संज्ञिनः सयोग्ययोगिरूपगुणस्थानकद्वयसम्भवः तद्भावे तस्याऽमनस्कतया संज्ञित्वायोगात् ?, न, तदानीमपि हि तस्य द्रव्यमनःसम्बन्धोऽस्ति, समनस्काश्चाऽविशेषेण संज्ञिनो 'व्यवहियन्ते, ततो न तस्य भगवतः संशिताव्याघातः । यदुक्तं सप्ततिकाचूर्णी-- 'मणकरणं केवलिणो वि अस्थि तेण सन्निणो भन्नति, मनोविन्नाणं पडुच्च ते सन्निणो न भवंति त्ति। "मिच्छ सेसेसु" ति मिथ्यात्वं 'शेषेषु' भणितावशिष्टेषु पर्याप्तापर्याप्तसूक्ष्मपर्याप्तवादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसंक्षिपञ्चेन्द्रियलक्षणेषु सप्तसु जीवस्थानकेषु मिथ्यादृष्टिगुण स्थानमेव भवति न सासादनमपि, यतः परभवादागच्छतामेव घण्टालालान्यायेन सम्यक्त्वलेशमास्वादयतामुत्पत्तिकाल एवापर्याप्तावस्थायां जन्तूनां लभ्यते न पर्याप्तावस्थायाम् । अतः/पर्याप्तसूक्ष्मवादरद्वित्रि४चतु५रसंज्ञिपञ्चेन्द्रियाणां६ तदभावः, अपर्याप्तसूक्ष्मैकेन्द्रियेऽपि न सासादनसम्भवः, सासादनस्य मनाक् शुभपरिणामरूपत्वात्, महासंक्लिष्टपरिणामस्य च सूक्ष्मेकेन्द्रियमध्ये उत्पादाभिधानादिति ॥ ३ ॥ तदेवं निरूपितानि जीवस्थानकेषु गुणस्थानकानि । साम्प्रतं योगा वक्तुमवसरप्राप्तास्ते च पञ्चदश, तद्यथा--सत्यवाग्योगः १ असत्यवाग्योगः २ सत्यमृषावाग्योगः ३ असत्यामृपावाग्योगः ४ । तत्स्वरूपं चेदम्-- 'सच्चा हिया सतामिह, संतो मुणयो गुणा पयत्था वा । तव्दिवरीया मोसा, मीसा जा तदुभयसहावा ।। अणहिगया जा तीसु वि, सद्द च्चिय केवलो असच्चमुसा । १ मनःकरणं केवलिनोऽप्यस्ति तेन संझिनो भण्यन्ते । मनोविज्ञानं प्रतीत्य ते न संज्ञिनः स्युः ।। २ सत्या हिता सतामिह सन्तो मुनयो गुणाः पदार्था वा । तद्विपरीता मृषा मिश्रा या तदुभयस्वभावा ॥ अनधिकृता या तिसृष्वपि शब्द एव केवलः असत्यमृषा ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy