SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२-१३ ] बन्वस्वामित्वाख्यस्तृतीयः कर्मप्रन्थः । १२१ तद्भणनाच्च गतिबन्धमार्गणा समाप्ता । साम्यतमिन्द्रियेषु कार्येषु च तदारभ्यते - " अपज” इत्यादि । अपर्याप्ततिर्यग्वद् नवोत्तरशतमेकेन्द्रियपृथ्वीजलतरुविकलेषु द्रष्टव्यम् । अयमर्थःविंशत्युत्तरशतमध्याद् जिननामाद्येकादशप्रकृतीमुक्त्वा शेषं नवोत्तरशतमेकेन्द्रिया विकले - न्द्रियाः पृथ्वीजलवनस्पतिकायाश्च सामान्यपदिनो मिथ्यादृशश्च बध्नन्ति ॥ ११ ॥ अथैतेषामेव सासादन गुणस्थाने बन्धमाह छनवह सासणि विणु सहमतेर केइ पुण चिंति चनवई । तिरियन ऊहिँ चिणा, तणुपज्जत्तिं न ते जंति ॥ १२ ॥ व्याख्या - प्रागुक्तं नवोत्तरशतं सूक्ष्मत्रिकादिप्रकृतित्रयोदशकं मिथ्यात्व एव व्यवच्छिन्नबन्धमिति कृत्वा तद् बिना षण्णवतिः सासादने एकेन्द्रियविकलेन्द्रियपृथ्वीजलवनस्पतिकायानां भवति । केचित् पुनराचार्या ब्रुवते चतुर्नवतिं तिर्यग्नरायुष्काभ्यां विना, यतस्त एकेन्द्रियविकलेन्द्रियादयः सासादनाः सन्तस्तनुपर्याप्तिं न यान्ति अतस्ते तिर्यग्नरायुरवन्धकाः । अयं भावार्थ:तिर्यग्नरापोस्तनुपर्याप्त्या पर्याप्तैरेव बध्यमानत्वात् पूर्वमतेन शरीरपर्याप्त्युत्तरकालमपि सासादनभावस्येष्टत्वाद् आयुर्धन्धोऽभिप्रेतः, इह तु प्रथममेव तन्निवृत्तेनेष्ट : ति पण्णवतिः । तिर्यग्नयुपी विना मतान्तरेण चतुर्नवतिः ।। १२ ।। उक्त एकेन्द्रियादीनां बन्धः, अथ पञ्चेन्द्रियाणां सकायिकानां च तमाहओहु पणिदि तसे गइनसे जिणिक्कार नरतिगुच्च विणा । वजांगे ओहो, उरले नरभंगु तम्मिस्से ॥ १३ ॥ व्याख्या-‘ओघः' विंशत्युत्तरशतादिलक्षणः कर्मस्तवोक्तः पञ्चेन्द्रियेषु त्रसकायिकेषु चावगन्तव्यः 1 तद्यथा - सामान्यतो विंशत्युत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, सासादने एकोत्तरशतम्, मिश्र चतुःसप्ततिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः प्रमत्ते त्रिषष्टिः, अप्रमत्ते एकोनपष्टिरष्टपञ्चाशद्वा, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत्, भागपञ्चके षट्पञ्चाशत्, सप्तमभागे पडूविंशतिः, अनिवृत्तिवादरे आधे भागे द्वाविंशतिः, द्वितीये एकविंशतिः, तृतीये विंशतिः, चतुर्थे एकोनविंशतिः, पञ्चमेऽष्टादश, सूक्ष्मे सप्तदश शेषगुणस्थानत्रये सातस्यैकस्य बन्धः, अयोगिनि बन्धाभावः । गतित्रसाः - तेजोवायुकायास्तेषु जिननामाद्येकादशप्रकृतीर्नरत्रिकमुच्चैर्गात्रं च विना विंशत्युत्तरं शतं शेषं पश्चोत्तरं शतं बन्धे लभ्यते, सासादनादिभावस्तु नैषां सम्भवति । यत उक्तम् 'न हु किंचि लभिज्ज सुहुमतसा ॥ १६ १ न हि किंचिल्लभन्ते सूक्ष्मत्रसाः ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy