SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२ ] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । चदंसणुचजसनाणविग्घदसगं नि सोलसुच्छेओ । तिसु सायबंध छेओ, सजोगि बंधतुणंतो अ || १२ || बंधो सम्मन्तो । "उदंसण" ति चतुणां दर्शनानां समाहारश्चतुर्दर्शनं चक्षुर्दर्शनाऽचक्षुदर्शनावधिदर्शनकेवलदर्शनरूपम् "उच्च ""त्ति उच्चै गोत्रम् "जस" त्ति यशःकीर्तिनाम " नाणविग्वदसगं" ति ज्ञानावरणपञ्चकं विपञ्चकम् - अन्तरायपञ्चकमुभयमीलने ज्ञानविघ्नदशकमित्येतासां षोडशप्रकृतीनां सूक्ष्मसम्पराये बन्धस्योच्छेदो भवति, एतद्बन्धस्य साम्परायिकत्वाद् उत्तरेषु च साम्परायिकस्य कषायोदयलक्षणस्याऽभावादिति । "तिसु सायबंध" त्ति त्रिषु - उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानेषु सातबन्धः सातस्य केवलयोगप्रत्ययस्य द्विसामयिकस्य तृतीयसमयेऽवस्थानाभावादिति भावः, न साम्परायिकस्य तस्य कषायप्रत्ययत्वात् । आह च भाष्यसुधाम्भोनिधिः -- १७ "वसंतखीणमोहा, केवलिणो एगविहबंधा' | ते पुण दुसमयडियस्य बंधगा न उण संपरायस्स । इति । "छेओ सजोगि" त्ति डमरुकमणिन्यायात् सातबन्धशब्दस्येह सम्बन्धस्ततः सयोगिकेवलगुणस्थाने सातबन्धस्य च्छेदः - व्यवच्छेदः । इह सातबन्धोऽस्ति योगसद्भावात् । नोत्तasयोगिकेवलिगुणस्थाने, योगाभावात् । ततोऽबन्धका अयोगिकेवलिनः । उक्तं च* सेलेसी पडिवन्ना, अबन्धगा हुंति नायव्वा । "बंधंतुणंतो अ" त्ति बन्धस्यान्तोऽनन्तश्च बन्धशब्दस्याऽग्रे षष्टीलोपः प्राकृतत्वात् । तत इदमुक्तं भवति - - यत्र हि गुणस्थाने यासां प्रकृतीनां बन्धहेतुव्यवच्छेदस्तत्र तासां बन्धस्यान्तः, यथा मिथ्यादृष्टिगुणस्थाने व्यवच्छिन्नबन्धानां षोडशानां प्रकृतीनाम् मिथ्यात्वाविरतिकषाययोगा बन्धहेतवस्तेषु मिथ्यात्वं तत्रैव व्यवच्छिन्नम्, ततश्च मिथ्यादृष्टिगुणस्थाने तासां बन्धस्यान्तः, तत उत्तरेषु कारणवैकल्येन बन्धाभावात् ; इतरासां बन्धस्यानन्तः, तत उत्तरेष्वपि तद्बन्धकारण साकल्येन बन्धभावादिति । एवमन्येष्वपि गुणस्थानेषु प्रकृतीनां स्वस्वबन्धहेतुव्यवच्छेदाव्यवच्छेदाभ्यां साकल्यवैकल्यवशाद् बन्धस्यान्तोऽ ऽनन्तश्च भावनीय इति ॥ १२ ॥ ॥ इति श्रीदेवेन्द्रमूरिविरचितायां स्वोपज्ञकर्मस्तवटीकार्या बन्धाधिकारः समाप्तः ॥ १ उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥ ३ ते पुनर्द्विसमयस्थितिकस्य बन्धका न पुनः सम्परा-यस्य ।। ५ शैलेश प्रतिपन्ना अबन्धका भवन्ति ज्ञातव्याः ।। २-४-६ षोडशे पश्चाशके क्रमेण ४१ गाथाया उत्तराधं ४२ गाथायाः पूर्वार्द्धमुत्तरार्द्धं चोपलभ्यते ॥ १३
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy