SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । ७ विस्तरतस्तु क्षपकश्रेणिस्वरूपं स्वोपज्ञशतकटीकायां निरूपितं तत एव परिभावनीयम् । तदेवमन्येष्वपि गुणस्थानेषु क्षीणकषायव्यपदेशः सम्भवति, क्वापि कियतामपि कषायाणां क्षीणत्वात् , अतस्तद्व्यवच्छेदार्थ वीतरागग्रहणम् । क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्ति इति तव्यवच्छेदार्थं छद्मस्थग्रहणम्। छमस्थग्रहणे च कृते सरागव्यवच्छेदार्थं वीतरागग्रहणम् । वीतरागश्वासो छअस्थश्च वीतरागच्छमस्थः । स चोपशान्तकषायोऽप्यस्ति इति तद्व्यवच्छेदार्थ क्षीणकपायग्रहणम् । क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च क्षीणकषायवीतरागच्छद्मस्थः, तस्य गुणस्थानं क्षीणकपायवीतरागच्छद्मस्थगुणस्थानम् १२ इति । सं.लो. सं.मा. सं.मा. सको. पु.वे. हास्य रति अरति शोक भय जुगुप्सा स्त्रीवे. अ. क्रो. प्र. क्रो. अ. मा. प्र. मा. अ. मा. प्र. मा. अ. लो. प्र. लो. स.मो. मि.मो. मि.मो. म.को अ.मा. भ मा.अ.लो. तथा योगो वीर्य शक्तिः उत्साहः पराक्रम इति पर्यायाः, स च मनोवाकायलक्षणकर'णभेदात् तिस्रः संज्ञा लभते, मनोयोगो वाग्योगः - काययोगश्चेति । तथा चोक्तं कर्मप्रकृती परिणामालंबणगहणकारणं तेण लद्धनामतिगं । कजन्भासान्नुनप्पवेसविसमीकयपएसं ॥ (गा० ४ ) तत्र भगवतो मनोयोगो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् , ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वाकारान्यथानुपपत्या लोकस्वरूपादिबाह्यमर्थमवगच्छन्तीति । वाग्योगो १०णत्रयभे० ख० ॥२ परिणामालम्बनग्रहणकरणं तेन लब्धनामत्रिकम् । कार्याभ्यासान्योऽन्यप्रवेशविषमीकृतप्रदेशम् ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy