________________
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
सिद्धाऽऽचार्योपाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां भक्तः - बहुमान परः 'प्रकरोति' प्रकर्षेण समुपार्जयति ‘उच्चम्' उच्चै गोत्रम् | 'नीच' नीचैगोत्रम् ' इतरथा तु' भणितविपरीतस्वभावः । उक्तं च
५८-६० ]
परस्य निन्दावज्ञोपहासाः सद्गुणलोपनम् । सदसदोषकथनमात्मनस्तु प्रशंसनम् ॥ सदसद्गुणशंसा च, स्वदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति, नीचे गोत्राश्रवा अमी ॥ चैत्राश्रविपर्यास विगतगर्वता । वाक्कायचित्तैर्विनयः, उच्चैगोत्राश्रवा अमी ॥
(योगशा० टी० पत्र ३०८ - १ ) ।। ५६ ।। उक्त गोत्रस्य बन्धहेतवः । साम्प्रतमन्तरायस्य ये बन्धहेतवस्तानभिधित्सुः शास्त्रमिदं समर्थयन्नाह -
जिणयाविग्धकरो, हिंसाइपरायणो जय विग्धं । इय कम्भविवागोऽयं, लिहिओ देविदसूरीहिं ||३०||
७५
'जिनपूजाविनकर' सावद्यदोषोपेतत्वाद् गृहिणामप्येषा अविधेया इत्यादिकुदेशनादिभिः समयान्तरस्तच्चदूरीकृतो जिनपूजानिषेधक इत्यर्थः । हिंसा - जीववध आदिशब्दाद् अनृतभाषणस्तैन्यायपरिग्रहरात्रिभोजनाऽविरमणादिपरिग्रहस्तेषु परायणः -- तत्परः, उपलक्षणत्वात् सोक्षमार्गस्य ज्ञानदर्शनचारित्रादेस्तदोषग्रहणादिना विघ्न करोति, साधुभ्यो वा भक्तपानोपाश्रयोपकरण में पजादिकं दीयमानं निवारयति, तेन चैतद् विदधता मोक्षमार्गः सर्वोऽपि विघ्नितो भवति, अपरेषामपि सत्त्वानां दानलाभभोगपरिभोगविघ्नं करोति, मन्त्रादिप्रयोगेण च परस्य वीर्यमपहरति, हठाच्च वधबन्धनिरोधादिभिः परं निश्चेष्टं करोति, छेदन भेदनादिभिश्च परस्येन्द्रियशक्तिमुपहन्ति । स किम् ? इत्याह- 'जयति' धातूनामनेकार्थत्वाद् अर्जयति 'विघ्नं ' पञ्चप्रकारमप्यन्तरायकर्म । 'इति' पूर्वोक्तप्रकारेण 'कर्मविपाकः' कर्मविपाकनामकं शास्त्रम् 'अयं' सम्प्रत्येव 'निगदितस्वरूपः 'लिखितः' अक्षरविन्यासीकृतः देवेन्द्रसूरिभिः करालकलिकाल पातालतलामञ्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगचन्द्र सूरिचरणसरसीरुह चञ्चरीकैरिति ॥ ६०||
॥ इति श्रीदेवेन्द्रसूरिविरचिता स्वोपज्ञकर्मविपाकटीका समाप्ता ॥
[ग्रन्थकारप्रशस्तिः]
विष्णोरं यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । कर्ममलपटलजलदः, सः श्रीवीरो जिनो जयतु ॥ १ ॥
१ ०ज्ञानाचा० ख०ग०६० ॥