SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ४३-४७ ] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । ६३ अत्र खद्योताच ते आदियेषां रत्नौषधीप्रभृतीनां ते यतिदेवोत्तरवै क्रियज्योतिष्कखद्योतादयस्त इव । मकारोऽलाक्षणिकः । अयमर्थ:: -- यथा यतिदेवोत्तरवैक्रियं चन्द्रग्रहादिज्योतिष्काः खद्योता रत्नौषधीप्रभृतयश्चानुष्णप्रकाशात्मकमुद्योतं विदधति तथा यदुदयाद् जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतमातन्वन्ति तद् उद्योतनामेत्यर्थः ४ ॥ ४५ ॥ अंगं न गुरु न लहुयं, जायइ जीवस्स अगुरुलहुउदया । तिथेण तिहुयणस्स वि, पुज्जो से उदभो केवलिणो ॥ ४६ ॥ 'अगुरुलघुदयाद्' अगुरुलघुनामोदयेन जीवस्य 'अगं' शरीरं न गुरु न लघु 'जायते' भवति किन्तु अगुरुलघु । यत एकान्तगुरुत्वे हि वोढुमशक्यं स्यात्, एकान्तलघुत्वे तु वायुनाsपहियमाणं धारयितु न पार्येत । यदुदयाद् जन्तुशरीरं न गुरु न लघु नापि गुरुलघु किन्त्वगुरुलघुपरिणामपरिणतं भवति तद् अगुरुलघुनामेत्यर्थः ५ । 'तीर्थेन' तीर्थकरनामकर्मवशात् 'त्रिभुवनस्यापि' देवमानवदानवलक्षणत्रिलोकलोकस्यापि 'पूज्यः' अर्यचनीयो भवति । 'से' तस्य तीर्थकरनामकर्मणः 'उदयः' विपाकः 'केवलिनः' उत्पन्न केवलज्ञानस्यैव । यदुदयाद् जीवः सदेवमनुजासुरलोकपूज्यमुत्तमोत्तमं ""तित्थं भंते ! तित्थं ? तित्थय रे तित्थं ? गोयमा ! अरिहा तात्र नियमा तित्थंकरे, तित्थं पुण चाउवन्ने समणसंघे पढमगणहरे वा ||" (भग० श० २० उ० ८ पत्र ७६२-२ ) इति परममुनिप्रणीतधर्मतीर्थस्य प्रवर्तयित्पदमवाप्नोति तत् तीर्थकरनामेत्यर्थः ६ ।।४६॥ अंगोवंगनियमणं, निम्माणं कुणइ सुत्तहारसमं । उवघामा उवहम्मइ, सतणुवयवलंबिगाईहिं || ४७| 'निर्माण' निर्माण नाम 'अङ्गोपाङ्गनियमनम्' अङ्गप्रत्यङ्गानां नियतप्रदेशव्यवस्थापनं 'करोति' विदधाति, अत एवेढं 'सूत्रधारसमं ' सूत्रभृत्कल्पम् । यदुदयाद् जन्तुशरीरेष्वङ्गोपाङ्गानां प्रतिनियतस्थानवृत्तिता भवति तत् सूत्रधारकल्पं निर्माणनामेत्यर्थः । तदभावे हि तद्भुतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वर्तितानामपि शिरउदरादीनां स्थानवृत्तेरनियमः स्यात् ७ । 'उपघाताद् उपघातनामोदयाद् 'उपहन्यते ' विनाश्यते जन्तुः कैः ९ इत्याह- स्वा- स्वकीया तनुः - शरीरं स्वतनुस्तस्या./अवयवाः-अंशा ये लम्बिकादयः, आदिशब्दात् प्रतिजिह्वा चौरदन्तादिपरिग्रहस्तः, " सतपुवयव" इत्यत्र अकारलोपः प्राकृतत्वात् । यदुदयात् स्वशरीरान्तः प्रवर्धमानैर्लम्बिकाप्रतिजिह्वा चौरदन्तादिभिर्जन्तुरुपहन्यते तद् उपघातनामेत्यर्थः ८ ॥४७॥ १ तीर्थं मदन्त ! तीर्थम् ? तीर्थकरस्तीर्थम् ? गौतम ! अर्हस्तावन्नियमात् तीर्थङ्करः, तीर्थं पुनश्चतुवर्णः श्रमणसङ्घः प्रथमगणधरो वा ॥ २ ततः सू० ख० ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy