________________
दूरस्थेषु विदर्भेषु. गन्तुं शक्यं मया कथम् । यात्राभिषेककार्याय, तीर्थेऽन्तरिक्षसज्ञके ॥५५२॥ रात्रौ स्वप्ने समागत्य, केनोक्तं निर्जरेण च । न भेतव्यं च गन्तव्यं, युष्मामि मतस्त्वतः ॥५५॥ विहाराय निषिद्धोऽपि, तैवैद्यैस्तीर्थभक्तितः। निम्मृतो येवलाग्रामात् , सशिष्योऽहं सदाशयः ॥५५४॥ तीर्थनाथ-प्रभावेणा-धिष्ठायकपणोदनात् ।। विहारः सुखदो जातो, निरपायत्वतो मम ॥५५५।। श्रीपाश्वस्य धरन् ध्यान-मन्तरिक्षजिनेशितुः । उपदेशं ददच्छुद्धं, जिनधर्मस्य मुक्तिदम् ॥५५६॥ खानदेशं परित्यज्या-गतोऽहं मोगलीयके । संस्थाने शुभराज्ये च, शिष्यादिपरिवारयुग ॥५५७॥
औरंगाबादसढ्ने, प्राचीने चैत्यमंडिते । कियद्दिनान्युषिखा च, व्यहार्ष तत्पुरादहम् ॥५५८॥ जालनाख्ये पुरे श्रेष्ठे, जैनैः स्वागतमद्भुतम् । कृतं धर्मस्य संवृद्धये, अस्माकं धर्मदायिनाम् ॥५५९।। प्रोत्तुङ्गे जिनचैत्ये च, प्राचीने जिनभूषिते । दर्शनेन स्तवैः शस्यैः, स्तुति चकमहे वयम् ॥५६०॥ उपदेशो मदीयास्या-च्छ्रतो धर्मानुरागिमिः । श्रोतभिर्दत्तचेतस्कैः, संसारानलतोयदः ॥५६॥