________________
श्रेय:कलत्रकरपीडनकारणाय,
श्रेयस्कृते रचितधर्मनिकेतनाय । विश्वाभुताय भविजन्तु शिवराय, ..
नित्यं नमो भगवते मुनिसुव्रताय ॥२०॥ योगात्मकाय विमलाय मुनीश्वराय,
ब्रह्मात्मने कुशलधर्मविकासकाय । विश्वेश्वराय नमिनाथ जिनेश्वराय,
नित्यं नमो भगवते इतमन्मथाय ॥२१॥ विश्वेश्वरोऽसि गुणभृत्पुरुषोत्तमोऽसि,
बुद्धोऽसि नाथ ! भवसागरतारकोऽसि । अहंस्त्वमेव मुनियामकनायकोऽसि,
श्रीनेमिनाथ ! शरणागतवत्सलोऽसि ॥२२॥ भक्तेप्सितार्थपरिपूरणकामधेनम् ,
मिथ्यानिशातिमिरनाशनसौम्यचन्द्रम् । पद्मावतीधरणवासववन्दिताघ्रिम् ,
श्रीपाश्वनाथमनिशं परिपूजयामि ॥२३॥ सिद्धार्थराजकुलविष्णुपदग्रहेशम्,
ज्ञानोज्ज्वलं सुरनरेश्वरसेव्यपादम् । संसारसागरमुपारकरैकनावम,
श्रीवर्धमानजिनपं प्रणमामि शश्वत् ॥२४॥