SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ : १०७ : दशवासरपर्यन्तो, महोत्सवो भविष्यति । तत्राअनशलाकायाः, प्रतिष्ठायाश्च मोदनः ॥९६७।। सधर्मणां दशाहेऽत्र, स्वादनि जेमनान्यपि । निर्णीतानि वदान्यैश्च, श्रावकैधर्मवासितैः ॥९५८॥ अत्र महोत्सवे विंश-तिसहस्रमितं धनम् । समरताह्वया दत्तं, श्रीमत्या धर्मधीजुषा ॥९६९॥ स्त्रीचक्रिरे समे सभ्याः, सम्मान्या दीर्घदर्शिनः । दानदात्री च तैः सभ्यः, धन्यवादः प्रशंसिता ॥९७०।। युग्मम् ॥ अन्येश्च श्रेष्ठिसम्मान्यैः, दानिभिः धर्मधारिभिः । जेमनाय प्रतिष्ठायां, भृशं वित्तं समर्पितम् ॥९७१॥ सम्मिल्य सर्वमभ्याश्च, कुर्वन्ति हि विचारणाम् । आकर्षको हि भव्यानां, कर्तव्योऽद्भुत उत्सवः ॥९७२।। प्रतिष्ठाया विधानज्ञाः, सुज्ञाः ख्याताः क्षितेस्तले । अनुभवनिधानाभा-छायापुरीनिवासिनः ॥९७३॥ निमन्त्रणेन चाहता, बहमानेन भक्तितः । विधिज्ञाः सक्रियाप्रौढाः, प्रतिष्ठायां व्रतादराः ॥९७४॥ रमण- चीनुलालाख्यौ, भ्रातरौ द्वौ क्रियाविदौ । द्वादशत्रतिनौ श्राद्धौ, आयातौ मण्डलीयुतौ ॥९७५॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy