________________
श्री श्रीबप्पभट्टिसूरिकृत-सरस्वतीमन्त्रकल्पः
तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् इति मूलकाव्यं यन्त्रोद्धारसूचकम्
तथा
ॐ ऐं श्रीमनु स ततोऽपि च पुनः कँली वदौ वाग्वादिनी एतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहितः स्याद्देव्यसौ साम्प्रतम् ॥ इति मूलमन्त्रोद्वारकाव्यं च । तथापि गुरुक्रमवशतः पाठान्तराणि द्दश्यन्ते तत्र गुरुक्रम एव प्रमाणम् । भक्तानां हि सर्वेऽपि फलन्तीति ।
ॐ ह्रीं आसिआउसा नमः अर्हं वाचिनि ! सत्यवाचिनि ! वाग्वादिनी वद वद मम वक्त्रे व्यक्तवाचया ह्रीं सत्यं ब्रूहि ब्रूहि सत्यं वद वद अस्खलितप्रचारं सदेवमनुजासुरसदसि ह्रीं अर्हं असिआउसा नमः स्वाहा! लक्षजापात् सिद्धिर्बप्पभट्टिसारस्वतम् ।
इति श्रीबप्पभट्टिसारस्वतकल्पः ।
वाग्भवं प्रथमं बीजं १ द्वितीयं कुसुमायुधम् । तृतीयं जीवसंज्ञं च सिद्धसारस्वतं स्मृतम् ॥ जीवसंज्ञं स्मरेद् गुह्ये वक्षसि ( वक्षस्थले) कुसुमायुधम् शिरसि वाग्भवं बीजं शुक्लवर्णं स्मरेत् त्रयम् ॥ त्रयम्-बीजत्रयमित्यर्थः ।
२५
ॐ ह्रीं मण्डले आगच्छ आगच्छ स्वाहा । आह्वानम् । ॐ ह्रीं स्वस्थाने गच्छ गच्छ स्वाहा विसर्जनम् ।
ॐ अमृते ! अमृतोद्भवे ! अमृतमुखि ! अमृतं स्त्रावय स्त्रावय ह्रीं स्वाहा इति सकलीकरणम् । इति शारदाकल्पः ।
ॐ नमो भगवओ अरिहओ भगवईए वाणीए वयमाणीए मम सरीरं पविस पविस निस्सर निस्सर स्वाहा ।
लक्षं जापः । वाक्सिद्धिः फलति ।
ॐ नमो हिरीए बंभीए भगवईए सिज्जउ मे भगवई महाविज्जा ॐ बंभी महाबंभी स्वाहा । लक्षं पूर्वसेवायां जपः, तत्र त्रिसन्ध्यं सदा जपः ।
क्षिप ॐ स्वाहेति पञ्चतत्त्वरक्षा पूर्वं कार्या । प्राङमुखं च ध्यानम् । एष विधिः सर्वसारस्वतोपयोगी ज्ञेयः ।