SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले, निःशेषावनि - चक्रवर्तीपदवीं लब्धवा प्रतापोन्नतः । यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोडभवद्, देवि ! त्वच्चरणाम्बुजप्रणतिजः सोऽयं प्रसादोदयः || १२ || चण्डि ! त्वच्चरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्टनात् - कोटिभिः परिचयं येषां न जग्मुः कराः । त्रुट्यत्कण्टक ते दण्डांकुशचक्रचापकुलिश- श्रीवत्समत्स्याऽङ्कितै र्जायन्ते पृथिवीभुजः कथमिवांभोजप्रभेः पाणिभिः || १३ || J विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्यैक्षवै स्त्वां देवि ! त्रिपुरे ! परापरकलां संतर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं, तां तां सिद्धिमवाप्नुवन्ति तरसा विध्नैरविध्नीकृताः || १४ || शब्दानां जननी त्वमत्रभुवने वाग्यवादिनीत्युच्यसे, त्वत्तःकेशववासवप्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्पविरतौ ब्रह्मादयस्तेऽप्यमी, सा त्वं काचिदचिन्त्यरुपमाहिमा शक्तिः परा गीयसे || १५ || देवानां त्रिर्य त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा, स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । यत्किंचिज्जगति त्रिधा नियमितं वस्तु तेरवर्णादिकं, तत्सर्व त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ।। १६ ।। ઇનસાધના અને સરસ્વતી વંદના ૧૭
SR No.032026
Book TitleGyan Sadhna Ane Sarasvati Vandana
Original Sutra AuthorN/A
AuthorGunvant Barvalia
PublisherNavbharat Sahitya Mandir
Publication Year2011
Total Pages166
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy