________________
सटीकजैनतर्कभाषायां
'शब्दोऽयमिति विशेषावगाहिनो व्यावहारिकावग्रहस्याऽनन्तरं येहा समुद्भवति तामुदाहरति- मधुरत्वादीति । मधुरत्वादिरसाधारणधर्मः शाङ्खादिशब्दविशेषस्यैव, न स शार्ङ्गादिशब्दविशेषेऽस्तीति तेन धर्मेण शाङ्खादित्वाभावस्य तद्व्याप्यस्य शार्ङ्गत्वादेश्च व्यतिरेकधर्मस्य निराकरणमन्वयधर्मस्य शाङ्खत्वादेः सङ्घटनं च 'मधुरत्वादिना प्रायो ऽनेन शाङ्खादिना भवितव्यमिति बोधेन क्रियते इति स बोध ईहेत्यर्थः ।
६४
संशयस्य विधिव्यतिरेकयोर्दोलायमानतया समभावेन प्रवृत्तिः, ईहायाश्च व्यतिरेकापाकरणेनाऽन्वयधर्मसङ्घटनद्वारा निश्चयात्मकापायाभिमुखत्वेन संशयाद् भेद इत्याह
न चेयं संशय एव-तस्यैकत्र धर्मिणि विरुद्धनानार्थज्ञानरूपत्वाद्, अस्याश्च निश्चयाभिमुखत्वेन विलक्षणत्वात् ।
ईहायाः संशयत्वनिषेधे हेतुमाह - तस्येति । तस्य = संशयस्य । एकत्रेति । एकस्मिन् धर्मिणि विरुद्धनानाधर्मप्रकारकं ज्ञानं संशय इति तस्य व्यतिरेकधर्मेऽन्वयधर्मे च दोलायमानतैव, न तु निश्चयाभिमुखत्वमिति । अस्याश्च = ईहायाः पुनः ।
मतिज्ञानस्य तृतीयभेदमपायं निरूपयति
ईहितस्य विशेषनिर्णयोऽवाय:, यथा-'शब्द एवाऽयम्', 'शाङ्ख एवाऽय 'मिति वा । अत्र ईहितस्य विशेषनिर्णय इति लक्षणनिर्देशः, अपाय इति लक्ष्यनिर्देशः । श्रोत्रग्राह्यत्वादिना ईहितस्य = ईहया विषयीकृतस्य = निश्चयाभिमुखीकृतस्य, विशेषनिर्णयः 'श्रोत्रग्राह्यत्वादितः शब्द एवाऽयं न रूपादिरिति निश्चयात्मको यो बोधः सोऽपाय इत्यर्थः । उदाहरति- यथा-शब्द एवाऽयमिति । निश्चयावग्रहानन्तरभाव्यपायस्वरूपकथनमेतत् ।
=
शाङ्ख एवाऽयमिति वेति । वा अथवा शाङ्ख एवाऽयमिति निर्णयोऽपायः । अनेन व्यावहारिकार्थावग्रहानन्तरभाव्यपाय उक्तः । अत्र ईहितस्य = 'मधुरत्वादिना प्रायः शाङ्खेनाऽनेन भवितव्य'मित्येवमीहया विषयीकृतस्य निश्चयाभिमुखीकृतस्य 'मधुरस्निग्धत्वादिगुणत्वात्
=
'न चेयं संशय'-'' निर्णयादर्शनात् ईहायां तत्प्रसङ्ग इति चेत्, न, अर्थादानात् ।" “संशयपूर्वकत्वाच्च ।”– तत्त्वार्थ० १.१५. ११, १२ । प्र० न० २.११ ।
'ईहितस्य'-''मधुरस्निग्धादिगुणत्वात् शङ्खस्यैवाऽयं शब्दः, न शृङ्गस्य इत्यादि यद् विशेषविज्ञानम्, सोऽपायो निश्चयज्ञानरूपः । कुतः ? पुरोवर्त्यर्थधर्माणामनुगमभावादस्तित्वनिश्चयसद्भावात्, तत्राऽविद्यमानार्थधर्माणां तु व्यतिरेकभावात् नास्तित्वनिश्चयसत्वात् । अयं च व्यवहारार्थावग्रहानन्तरभावी अपाय उक्तः, निश्चयावग्रहानन्तरभावी तु श्रोत्रग्राह्यत्वादिगुणतः 'शब्द एवाऽयं न रूपादिः' इति । " - विशेषा० बृ० गा० २९० ।