________________
मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् दृष्टेत्यत आह-एकेति । प्रचुरतराः तेजोऽवयवाः प्रकाशस्वभावा यद्यपि दृश्यन्त एव, तथाप्येकः तेजोऽवयवोऽतिसूक्ष्मः प्रकाशस्वभावोऽपि न दर्शनपथमुपयाति, तथा व्यञ्जनावग्रहो ज्ञानस्वभावत्वेन प्रकाशस्वभावोऽप्यतीवाल्पत्वेनाऽव्यक्तं तद् ज्ञानं स्वसंवेदनेनाऽपि । न व्यक्तमपि व्यज्यते इति भावः ।
तस्य = व्यञ्जनावग्रहस्य, तनुत्वेन = अतिसूक्ष्मत्वेन, अनुपलक्षणात् = स्वसंवेदने सत्यपि तेन व्यक्तमनवभासनात् । तत् स्वसंविदितमपि न भवतीति तु न वाच्यम्, ज्ञानमात्रस्य जडेभ्यो वैलक्षण्यार्थं स्वसंविदितत्वस्याऽवश्यमभ्युपेयत्वात्, अन्यथा सर्वथाऽभासमाने तस्मिन् जडत्वस्यैवाऽऽपत्तेरिति बोध्यम् ।
व्यञ्जनावग्रहस्य भेदं दर्शयतिस च नयनमनोवर्जेन्द्रियभेदात् चतुर्धा,
स = व्यञ्जनावग्रहः । नयनमनोवर्जेन्द्रियेति । नयनमनोभिन्नेत्यर्थः । चतुर्थेति । श्रावण-घ्राणज-रासन-त्वाचव्यञ्जनावग्रहा इत्यर्थः । ।
नयनमनसोः कुतो न व्यञ्जनावग्रह इत्यपेक्षायामाहनयनमनसोरप्राप्यकारित्वेन व्यञ्जनावग्रहासिद्धेः,
विषयेण सह संयुज्य ज्ञानलक्षणकार्यकारित्वं श्रोत्रादीन्द्रियाणां प्राप्यकारित्वम् । नयनमनसोस्तु स्वविषयेण सह संयोगलक्षणसम्बन्धमन्तरेणैव स्वकार्यकारित्वमित्यप्राप्यकारित्वेन तयोर्व्यञ्जनावग्रहासिद्धरित्यर्थः ।
अन्यथा तयोर्जेयकृतानुग्रहोपघातपात्रत्वे जलानल-दर्शनचिन्तनयोः क्लेददाहापत्तेः।
'स च नयन०'-"इदमुक्तं भवति-विषयस्य इन्द्रियस्य च यः परस्परं सम्बन्धः प्रथममुपश्लेषमात्रम्, तद् व्यञ्जनावग्रहस्य विषयः । स च विषयेण सहोपश्लेषः प्राप्यकारिष्वेव स्पर्शन-रसन-घ्राण-श्रोत्रलक्षणेषु चतुरिन्द्रियेषु भवति, न तु नयनमनसोः । अतस्ते वर्जयित्वा शेषस्पर्शनादीन्द्रियचतुष्टयभेदाच्चतुर्विध एव व्यञ्जनावग्रहो भवति ।
कुतः पुनरेतान्येव प्राप्यकारीणि ? इत्याह-उपघातश्चाऽनुग्रहश्चोपघातानुग्रहौ तयोर्दर्शनात्कर्कशकम्बलादिस्पर्शने त्वक्षणनाद्युपघातदर्शनात्, चन्दनाङ्गनाहंसतूलादिस्पर्शने तु शैत्याद्यनुग्रहदर्शनात् । नयनस्य तु निशितकरपत्र-सेल्ल-भल्लादिवीक्षणेऽपि पाटनाद्युपघातानवलोकनात्, चन्दनागुरुकर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननुभवात् । मनसस्तु वयादिचिन्तनेऽपि दाहाद्युपघातादर्शनात्, जलचन्दनादिचिन्तायामपि च पिपासोपशमाद्यनुग्रहासम्भवाच्च ।"-विशेषा० बृ० गा० २०४।