SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सटीकजैनतर्कभाषायां तद्वस्तुविषयिणी भवत्युपेक्षा, परं सा न व्यवहार इति तदकथनम् । संव्यवहारप्रयोजनकप्रत्यक्षत्वरूपव्युत्पत्तिनिमित्तस्य सांव्यवहारिकप्रत्यक्षलक्षणत्वेऽपि न कश्चिद् दोषः । यद्यपि कस्यचित् सहकारिणो वैकल्यात् केनचित् चाक्षुषादिज्ञानेन प्रवृत्त्यादिलक्षणः संव्यवहारो न भवति, तथापि तादृशसंव्यवहारानुकूलशक्तिमत्त्वलक्षण-तज्जनकतावच्छेदकशालित्वेन तज्जननयोग्यत्वमस्त्येवेति न तत्राऽव्याप्तिः । व्यावहारिकोऽपि घटादिः पारमार्थिको भवत्येवेति सांव्यवहारिकत्वे पारमार्थिकत्वविरोधाभावात् सामान्यधर्मव्याप्य-परस्परविरुद्धनानाधर्मेण धर्मिप्रतिपादनरूपविभागः प्रत्यक्षस्य सांव्यवहारिकत्व-पारमार्थिकत्वाभ्यामनुपपन्न इत्यत आह-अपारमार्थिकमिति । तथाच सांव्यवहारिकत्वमपारमार्थिकत्वमेव, तच्च पारमार्थिकत्वविरुद्धमिति तद्रूपेण विभागो नाऽनुपपन्न इति भावः । यच्चाऽपारमार्थिकं प्रत्यक्षम्, तद् वस्तुतः परोक्षमेव । परोक्षत्वापरोक्षत्वयोः परस्परविरुद्धत्वेनैकस्य यत्राऽपारमार्थिकत्वं स्वासत्त्वनिबन्धनम्, तत्र द्वितीयस्य स्वसत्त्वनिबन्धनं पारमाथिकं स्यात् । अतोऽस्मदादिप्रत्यक्षस्य पारमार्थिकपरोक्षत्वमपारमाथिकप्रत्यक्षत्वप्रयोजकमुपदर्शयति तद्धीन्द्रियानिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात् परमार्थतः परोक्षमेव । हि = यतः, तत् = अस्मदादिचाक्षुषादिप्रत्यक्षम् । इन्द्रियेति । इन्द्रियानिन्द्रियाभ्यां चक्षुरादिमनोभ्यां व्यवहितो य आत्मव्यापारः, तत्सम्पाद्यत्वात् = तत्प्रयोज्यत्वात् । आत्मा इन्द्रियानिन्द्रिययोः प्रेरणे व्याप्रियते, ताभ्यां चेन्द्रियजन्यं मनोजन्यं च ज्ञानं जायते इति परम्परयाऽऽत्मजन्यत्वं तत्र, न तु साक्षादात्मव्यापारजन्यत्वलक्षणपारमार्थिकप्रत्यक्षत्वम् । किन्तु व्यवहितात्मव्यापारप्रयोज्यत्वेन परमार्थतः परोक्षत्वमेवेति निर्गलितोऽर्थः । यत्र व्यवहितात्मव्यापारप्रयोज्यत्वं तत्र परोक्षत्वमेव, यथा धूमरूपलिङ्गज्ञानेन जन्यं वह्निरूपलिङ्गिज्ञानम् । तत्र धूमज्ञानेनाऽऽत्मव्यापारस्य व्यवहितत्वम् । तथैवेन्द्रियानिन्द्रियजन्यज्ञानेऽपि तद्व्यापारेणाऽऽत्मव्यापारस्य व्यवहितत्वमविशिष्टमिति तद् ज्ञानं परमार्थतः परोक्षमेवेत्याह 'तद्धीन्द्रिया०'-"इदमुक्तं भवति-अपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्येन्द्रियमनांसि, अमूर्ताच्च मूर्त पृथग्भूतम्, ततस्तेभ्यः पौद्गलिकेन्द्रियमनोभ्यो यद् मतिश्रुतलक्षणं ज्ञानमुपजायते तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षम् ।'–विशेषा० बृ० गा० ९०.
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy