SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रमाणलक्षणविवरणम् स्वरूपं 'स्व'शब्देन ग्रहीतव्यमित्यर्थः । 'पर पदेन भिन्नस्वरूपबोधकेनाऽशेषस्याऽपि जगतो ग्रहणं प्रसज्येतेत्यत आहपरः तस्मादन्योऽर्थ इति यावत् । ज्ञानस्वरूपाद् भिन्नः परपदेन ग्राह्य इत्यर्थः । ज्ञानस्वरूपादन्य आत्माऽपि, तव्यवसायि भ्रमज्ञानमपीत्यत आह–अर्थ इति । यज्ज्ञानस्य यो ज्ञेयो बाह्योऽर्थः, स एव परपदेनाऽत्राऽभिप्रेत इत्यर्थः । तौ व्यवस्यति = यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । तौ-ज्ञानस्वरूप-बाह्यार्थौ । यथास्थितत्वेन-यस्य ज्ञानस्य यद् रूपं प्रत्यक्षत्वानुमितित्वादिकम्, बाह्यार्थस्य च स्वस्मिन् वर्तमानं यद् रूपम्, तद्रूपेण । यद्यपि लक्षणवाक्ये लक्ष्यमुद्दिश्य लक्षणं विधीयत इति उद्देश्यविधेयवचनयोरावश्यकत्वमेवेति केवलं 'प्रमाण मिति पदं विभक्तिलक्षणपदसमभिव्याहारमाश्रित्य वाक्यं भवदपि लक्ष्यमात्रप्रतिपादकत्वाद् न लक्षणवाक्यमतो ज्ञानपदाऽनुपादानेऽन्यदेव किञ्चिद् 'उपयोगा'दिपदमुपात्तं स्याद्, न च तद् उपात्तमिति लक्षणवाक्यत्वोपपत्त्यर्थमेव 'ज्ञान'पदम्, तथापि प्रमाणमित्यस्यैव रूढ्यर्थः किञ्चिल्लक्ष्यम्, प्रमाणत्वादिना परिकल्पितादिरूपं च किञ्चिल्लक्षणम्-इत्यभ्युपेत्य 'प्रमाण मिति लक्षणवाक्यं काममस्तु, किं ज्ञानपदोपादानेनेत्यत आह अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । ___- तात्पर्यसङ्ग्रहा न्यायविशारदं नत्वा यशोविजयवाग्मिनम् । तन्यते तर्कभाषाया वृत्तिस्तात्पर्यसङ्ग्रहा ॥ १. रज्जौ 'अहं सर्प जानामी'ति भ्रमेऽपि स्वस्य = ज्ञानस्वरूपस्य, तद्भिन्नस्याऽऽत्मनश्च व्यवसायो यथार्थ एवेति भ्रमेऽपि स्वपरव्यवसायित्वात् प्रमाणत्वापत्तिरिति ‘पर पदार्थं विवृणोति-तस्मादिति । २. स्वपरेति, व्यवसायीति, ज्ञानमिति च पदानामावश्यकताया दर्शनीयत्वेन प्रथमं केवलं 'प्रमाण'मिति ग्रहीतव्यम्। तस्य च 'प्रमाण' 'अम्' इति पदद्वयसमहत्वेन वाक्यत्वमपि । परं तस्य न लक्षणवाक्यत्वंलक्ष्यमात्रप्रतिपादकत्वात् । अतस्तत्र लक्षणवाक्यत्वोपपत्त्यर्थमेव 'ज्ञान'पदं स्यादिति न तत्पदकत्यस्याऽऽवश्यकता । तथापि 'प्रमाण'मित्येतावन्मात्रेऽपि, रूढ्यर्थो लक्ष्यम, स्वपरव्यवसायित्वरूपप्रमाणत्वस्य लक्षणत्वमिति लक्षणवाक्यत्वोपपत्तेर्न तदर्थं ज्ञानपदस्याऽऽवश्यकतेति ज्ञानपदप्रयोजनं दर्शयति-अत्रेति ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy