________________
सटीकजैनतर्कभाषायां
मङ्गलम् ऐन्द्रवृन्दनतं नत्वा, जिनं तत्त्वार्थदेशिनम् । प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ॥
ऐन्द्रवृन्दनतमिति । अहं तत्त्वार्थदेशिनमैन्द्रवृन्दनतं जिनं नत्वा तर्कभाषां प्रमाणनय
निक्षेपैस्तनोमीति सम्बन्धः ।
तत्त्वार्थदेशिनेमिति च विशेषणं जिनस्य साक्षाद् वचनातिशयस्य तद्द्वारा ज्ञानातिशयस्य च ज्ञापनार्थम् । वाक्यरचनां प्रति वाक्यार्थज्ञानस्य कारणत्वेन, तत्त्वार्थलक्षणवाक्यार्थज्ञानमन्तरेण तत्त्वार्थोपदेशलक्षणवाक्यस्याऽसम्भवेन, तत्त्वार्थोपदेष्टार जिने तत्त्वार्थज्ञानस्याऽवश्यम्भावात् ।
अर्थे तत्त्वेति विशेषणोपादानेनाऽतत्त्वात्मकस्यैकान्तवाद्यभिमतार्थस्य प्रतिपादकं यद् वचनं तन्नाऽतिशय इति तदुपदेष्टृणामेकान्तवादसूत्रणकुशलानां सूक्ष्ममतीनामपि न वचनातिशयः-तद्वचनस्याऽर्थशुद्ध्यभावात् । वचनस्य देशनास्वरूपतयाऽभिधानेन समवसरण - मभिव्याप्याऽवस्थितानशेषानपि नरामरतिर्यगादीन् प्राणिनः श्रोतॄन् प्रति प्रतिनियत-तत्तद्भाषापरिणतिस्वरूपतयैवाऽविशेषेणाऽर्थावबोधनिबन्धनत्वमिति शब्दस्य स्वरूपतोऽप्यतिशयावेदिका शुद्धिरावेदिता भवति । न च तीर्थान्तरीयाणां वचनमीदृशमिति न तस्य स्वरूपतोऽपि वैशिष्ट्यम् ।
ऐन्द्रवृन्दनतमिति विशेषणेन पूजातिशयो दर्शितः । यस्य पुरुषधौरेयस्याऽमराधीश्वरसमूहप्रणतिकर्मत्वम्, तस्याऽन्यनरनाथादिपूजनीयत्वं कैमुतिकन्यायागतमेवेत्यतः सर्वेभ्यो १. इन्द्राणामिदमिति ऐन्द्रम्, ऐन्द्रं च तद् वृन्दं चेति ऐन्द्रवृन्दम् ।
२. इन् प्रत्ययोऽत्र शीलार्थे ।
३. अतिशयः
ऐश्वर्यविशेषः । शास्त्रेष्वर्हतश्चत्वारो मूलातिशयाः चतुस्त्रिंशदुत्तरातिशयाश्च प्रतिपादिताः । तत्र मूलाश्चत्वार इमे - १. ज्ञानातिशय:- भगवतः सर्वकालदेशस्थनिखिलपदार्थसार्थव्यापि ज्ञानं भवति । २. वचनातिशयः-भगवतो वाणी सर्वसंशयोच्छेदिनी पीयूषनिर्झरिणी पञ्चत्रिंशद्गुणगणालङ्कृता च भवति । ३. पूजातिशयः- प्रभुर्देवेन्द्रनरेन्द्रादित्रिभुवनवर्त्तिनिखिलसत्त्वैः पूजनीयो भवति । ४. अपायापगमातिशयःप्रभुः स्वयं क्रोधादिभावरोगैर्द्रव्यरोगैश्च वियुक्तो भवति, यत्र च प्रभोरुपस्थितिः, तत्परितः सपादशतयोजनभूमौ स्थितानां सर्वाणि कष्टानि स्वयं नश्यन्ति ।
४. देवैर्विरचितमर्हद्देशनास्थानं समवसरणमित्युच्यते ।
=
५. अर्हद्देशनाया नियतभाषामयत्वेऽप्यतिशयवशाद् यथाश्रोतृ तस्या भाषान्तरपरिणतिर्भवति । ततः सर्वेऽपि सर्वमधिगन्तुं शक्नुवन्ति ।
६. अल्पस्य सामर्थ्यादौ ज्ञाते महतः तत् परिगणनीयमेवेति, महतोऽसामर्थ्यादौ ज्ञातेऽल्पस्य तत् परिगणनीयमेवेति वा द्योतयितुं 'किमुत' पदं प्रयुज्यते । यथा - हनुमानपि कुम्भकर्णायाऽलम्, किमुत राम: ?, मम प्राणा अपि त्वदीयाः, किमुत धनम् ? – एवं 'किमुत' अव्ययेन सङ्गृह्यमाणं कैमुतिकन्यायेनाऽऽगतमुच्यते ।