________________
जैनतर्कभाषा (मूल)
प्रमाणसङ्ख्याव्याघातप्रसङ्गात् ।
एतेन - 'गोसदृशो गवयः' इत्यतिदेशवाक्यार्थज्ञानकरणकं सादृश्यविशिष्टपिण्डदर्शनव्यापारकम् ‘अयं गवयशब्दवाच्यः' इति सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिरूपमुपमानम्-इति नैयायिकमतमप्यपहस्तितं भवति । अनुभूतव्यक्तौ गवयपदवाच्यत्वसङ्कलनात्मकस्याऽस्य प्रत्यभिज्ञानत्वानतिक्रमात् प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण यद्धर्मावच्छेदेनाऽतिदेशवाक्यानूद्यधर्मदर्शनं तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोप-पत्तेः । अत एव "पयोम्बुभेदी हंसः स्यात्" इत्यादि - वाक्यार्थज्ञानवतां पयोऽम्बुभेदित्वादि - विशिष्टव्यक्तिदर्शने सति 'अयं हंसपदवाच्यः' इत्यादिप्रतीतिर्जायमानोपपद्यते । यदि च 'अयं गवयपदवाच्यः' इति प्रतीत्यर्थं प्रत्यभिज्ञातिरिक्तं प्रमाणमाश्रीयते तदा आमलकादिदर्शनाहितसंस्कारस्य बिल्वादिदर्शनात् 'अतस्तत् सूक्ष्मम्' इत्यादिप्रतीत्यर्थं प्रमाणान्तरमन्वेषणीयं स्यात् । मानसत्वे चाऽऽसामुपमानस्यापि मानसत्वप्रसङ्गात् । 'प्रत्यभिजानामि' इति प्रतीत्या प्रत्यभिज्ञानत्वमेवाऽभ्युपेयमिति दिक् ।
[ तर्कस्य निरूपणम् ॥]
२६७
सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषय ऊहस्तर्कः, यथा 'यावान् कश्चिद्धूमः स सर्वो वह्नौ सत्येव भवति, वह्निं विना वा न भवति' 'घटशब्दमात्रं घटस्य वाचकम्' 'घटमात्रं घटशब्दवाच्यम्' इत्यादि । तथाहि–स्वरूपप्रयुक्ताऽव्यभिचारलक्षणायां व्याप्तौ भूयोदर्शनसहितान्वयव्यतिरेकसहकारेणाऽपि प्रत्यक्षस्य तावदविषयत्वादेवाऽप्रवृत्तिः, सुतरां च सकलसाध्यसाधनव्यक्त्युपसंहारेण तद्ग्रह इति साध्यसाधनदर्शनस्मरणप्रत्यभिज्ञानोपजनितस्तर्क एव तत्प्रतीतिमाधातुमलम् ।
अथ स्वव्यापकसाध्य-सामानाधिकरण्यलक्षणाया व्याप्तेर्योग्यत्वाद् भूयोदर्शन- व्यभिचारादर्शनसहकृतेनेन्द्रियेण व्याप्तिग्रहोऽस्तु, सकलसाध्यसाधनव्यक्त्युपसंहारस्याऽपि सामान्यलक्षणप्रत्यासत्त्या सम्भवादिति चेत्, न, ‘तर्कयामि' इत्यनुभवसिद्धेन तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्तौ सामान्यलक्षण - प्रत्यासत्तिकल्पने प्रमाणाभावात्, ऊहं विना ज्ञातेन सामान्येनाऽपि सकलव्यक्त्यनुपस्थितेश्च । वाच्यवाचक भावोऽपि तर्केणैवाऽवगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । प्रयोजकवृद्धोक्तं श्रुत्वा प्रवर्तमानस्य प्रयोज्यवृद्धस्य चेष्टामवलोक्य तत्कारणज्ञानजनकतां शब्देऽवधारयन्तो(यतो)ऽन्त्यावयवश्रवण-पूर्वावयवस्मरणोपजनित-वर्णपदवाक्यविषयसङ्कलनात्मकप्रत्यभिज्ञानवतँ आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकभावप्रतीतिदर्शनादिति । अयं च तर्कः सम्बन्धप्रतीत्यन्तरनिरपेक्ष एव स्वयोग्यतासामर्थ्यात् सम्बन्धप्रतीतिं जनयतीति नाऽनवस्था ।
प्रत्यक्षपृष्ठभाविविकल्परूपत्वान्नाऽयं प्रमाणमिति बौद्धाः, तन्न, प्रत्यक्षपृष्ठभाविनो विकल्पस्याऽपि प्रत्यक्षगृहीतमात्राध्यवसायित्वेन सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावात् । तादृशस्य तस्य सामान्यविषयस्याऽप्यनुमानवत् प्रमाणत्वात्, अवस्तुनिर्भासेऽपि परम्परया पदार्थप्रतिबन्धेन भवतां व्यवहारतः प्रामाण्यप्रसिद्धेः ।
यस्तु-अग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्याऽनुपलम्भ एकः, तदनन्तरमग्नेरुपलम्भस्ततो धूमस्येत्युपलम्भद्वयम्, पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याऽप्यनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुप१. तुलना - प्र० न० ३. ७-८ । २. -० युक्तव्यभि० सं० मु० । ३. ० सत्त्यसम्भ० प्र० व० । ४. -०ज्ञानवत् आवा० मु० ।