SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ जैनतर्कभाषा (मूल ) सम्पादकः - पण्डित सुखलालजी संघवी प्रतिपरिचय मु० - मुद्रित - यशोविजयकृतग्रन्थमाला (पृ. ११३ - १३२ ) प्र. भावनगर जैनधर्म प्रसारक सभा व० - परिशिष्ट - १ महोपाध्याय श्रीयशोविजयकृता प्रo प्रवर्त्तक श्रीमत् कांतिविजय पुस्तकसंग्रह, लेखन संवत् १७३६ - सं० पाटण संघ पुस्तक संग्रह ( वखतजीनी शेरी) डब्बा नं० ४० पोथी नं० ३६ पृष्ठ ४०-५३ पाटण संघ पुस्तक संग्रह ( वखतजीनी शेरी) डब्बा नं० २७, १. प्रमाणपरिच्छेदः । ऐन्द्रवृन्दनतं नत्वा जिनं तत्त्वार्थदेशिनम् । प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ॥ पोथी नं० २५ [प्रमाणसामान्यस्य लक्षणनिरूपणम् ।] तत्र-स्वपरव्यवसायि ज्ञानं प्रेमाणम् - स्वम् आत्मा ज्ञानस्यैव स्वरूपमित्यर्थः, परः तस्मादन्योऽर्थ इति यावत्, तौ व्यवस्यति यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् । परोक्षबुद्ध्यादिवादिनां मीमांसकादीनाम्, बाह्यार्थापलापिनां ज्ञात्राद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् । ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत्, सत्यम्, स्वार्थव्यवसितेरेव तत्फलत्वात् । नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात् प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेत्, न, प्रमाण - फलयोः कथञ्चिदभेदेन तदुपपत्तेः । इत्थं चात्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् । न ह्यव्यापृत आत्मा स्पर्शादिप्रकाशको भवति, निर्व्यापारेण कारकेण क्रियाजननायोगात्, मसृणतूलिकादिसन्निकर्षेण सुषुप्तस्यापि तत्प्रसङ्गाच्च । केचित्तु "ततोऽर्थग्रहणाकारा शक्तिर्ज्ञानमिहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथञ्चन ॥" [ तत्त्वार्थश्लोकवा० १.१.२२] इति १. ० निःक्षेपै० प्र० सं० व० । २. प्र० न० १.२ । ३. स्या० २० पृ० ३३ ३४ । ४. स्या० २० पू० ५० ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy