SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २३२ सटीकजैनतर्कभाषायां "तदेवं प्रकारद्धयेन नाम्नः स्वरूपमत्रोक्तम् । एतच्च तृतीयप्रकारस्योपलक्षणम् । पुस्तकपत्रचित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णालीमात्रस्याऽप्यन्यत्र नाम्नत्वेनोक्तत्वादिति ।" तत्त्वार्थटीकायामप्युपपादितो नामनिक्षेपः तद्ग्रन्थावलोकेन सुधीभिः परिशीलनीयः । स्थापनानिक्षेपं लक्षयति यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते चित्रादौ तादृशाकारम्, अक्षादौ च निराकारम्, चित्राद्यपेक्षयेत्वरं नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया च यावत्कथिकं स स्थापनानिक्षेपः । यथा जिनप्रतिमा स्थापनाजिनः, यथा चेन्द्रप्रतिमा स्थापनेन्द्रः ।। अत्र-यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते स इति लक्षणनिर्देशः, स्थापनानिक्षेप इति लक्ष्यनिर्देशः । चित्रादाविति विभागवचनम् । तत्र-चित्रादौ तादृशाकारमिति सद्भूतस्थापनानिक्षेपः, अक्षादौ 'निराकारमित्यसद्भूतस्थापनानिक्षेपः, चित्राद्यपेक्षयेत्वरमित्ययावत्कथिकस्थापनानिक्षेपः, नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया च यावत्कथिकमिति यावत्कथिकस्थापनानिक्षेपः। लक्षणवाक्येऽपि विभागवचनम् 'इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्ष'मिति गौतमसूत्रे दृष्टम् । तत्र हि इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति लक्षणम्, प्रत्यक्षमिति लक्ष्यम् । तस्य निर्विकल्पकसविकल्पकप्रमाप्रत्यक्षभेदेन द्वैविध्योपदर्शकमव्यपदेश्यमव्यभिचारिव्यवसायात्मकमिति विवेकः । यत्तु-जिनप्रतिमालक्षणं वस्तु, तदर्थवियुक्तं जिनशब्दवाच्य-रागद्वेषादिरहितकेवलज्ञानादिगुणालङ्कृत-पुरुषधौरेयरूपार्थात्मकं न भवति, अथ च तदभिप्रायेणतथाविधपुरुषविशेषबोधकत्वेच्छया, स्थाप्यते अयं जिन इति निक्षिप्यते, स-जिनप्रतिमादिः, स्थापनानिक्षेपः-स्थापनाजिन इति तद् वस्तु । चित्रादौ-भित्त्यादिगतरेखोपरेखादिविरचनसञ्जातजिनशरीराद्याकारनिर्मितिविशेषादौ, तादृशाकारं-वस्तुभूतजिनशरीराकृतिसदृशाकृतिकम्, तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते इत्यस्याऽत्र सम्बन्धः । एवमक्षादौ च निराकारमित्यादावग्रेऽपि सम्बन्धः । एतदसद्भूतस्थापनाकथनम् । इत्वरं-किञ्चित्कालानन्तरमपगमनस्वभावम् । यावत्कथिकं यावत्पूज्यपूजकादि१. निराकारम्-असमानाकारम् । यस्य वस्तुन आकारो न भवति तस्याऽपि स्थापना निराकारैवोच्यते । यथा पुस्तकलिखित-इकारादिवर्णावली।। २. यावत्कथिकस्थापनास्थले 'तिष्ठतीति स्थापने'त्येव व्युत्पत्तिः, न तु 'स्थाप्यते इति स्थापने'ति-तस्याः शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावात् ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy