SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१२ सटीकजैनतर्कभाषायां एतन्मते-नैगमादिमते । एवकारेण ज्ञानादेरेकैकस्य व्यवच्छेदः । अन्यथा 'ज्ञानादित्रयादेव मोक्ष' इति नियमाभ्युपगमे । समुदयवादस्य-समुदितैर्ज्ञानादिभिः त्रिभिर्मुक्तिर्न तु व्यस्तैरिति वादस्य, स्थितपक्षत्वात्-प्रमाणवादत्वात् । सम्यग्ज्ञान-सम्यग्दर्शन-सम्यक्चारित्ररूपरत्नत्रयादेव मोक्ष इति सिद्धान्तपक्षे जैनीये । यथा 'शक्तिनिपुणता लोककाव्यशास्त्राद्यवेक्षणात् ।। काव्यज्ञशिक्षयाऽभ्यास, इति हेतुस्तदुद्भवे ॥' इतिवचनाद् हेतुरित्यत्रैकवचनविवक्षितहेतुत्वगतैकत्वतः शक्तिनिपुणताभ्यासानां त्रयाणां समुदितानां काव्यं प्रत्येकमेव कारणत्वं पर्याप्तम्, तथोक्तरत्नत्रयाणां समुदितानामेकमेव मोक्षं प्रति हेतुत्वं पर्याप्तम् । नैगमादिनयप्रसूतनैयायिकादिमते तु वह्निगतवैजात्यत्रयं प्रकल्प्य, विजातीयवह्नि प्रति तृणं कारणम्, विजातीयवह्नि प्रत्यरणिः कारणम्, विजातीयवह्नि प्रति मणिः कारणमिति वह्नि प्रति तृणारणिमणीनां कारणतात्रयम्, तथा मोक्षगतवैजात्याभावेऽपि सम्यग्ज्ञानाव्यवहितोत्तरजायमानमोक्षं प्रति सम्यग्ज्ञानं कारणमित्यादिरीत्या कारणत्रयम् । तत्र योऽभिप्रायविशेषो नैगमाद्यभिप्रायावान्तरवैलक्षण्यवान् ज्ञानस्य मोक्षं प्रति कारणत्वमङ्गीकरोति तदपेक्षया नैगमादिनयानां ज्ञाननयत्वमित्येवं नयवादस्य स्थितपक्षात् सिद्धान्तवादात् प्रमाणमूर्धाभिषिक्ताद् भेद इति। नयविषयाणामल्पबहुत्वम् नयानां मध्ये यस्य नयस्य यन्नयापेक्षया बहुविषयत्वं यन्नयापेक्षया चाऽल्पविषयत्वं तदुपदर्शयितुं तत्र प्रतिपाद्यजिज्ञासामाह कः पुनरत्र बहुविषयो नयः को वाऽल्पविषयः ? इति चेद, अत्र=नयानां मध्ये । उत्तरयति उच्यते-सन्मात्रगोचरात् सङ्ग्रहाद् नैगमो तावद् बहुविषयो भावाभावभूमिकत्वात्। सन्मात्रगोचराद्=महासामान्यसन्मात्रविषयकात् । तावदिति वाक्यालङ्कारे । भावः१ १. यथा घटस्य भावो घटत्वम्, तथा सतो भावः सत्तेत्येवंरूपेण तस्य सत्तार्थवर्णनम् ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy