SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नयविशेषनिरूपणम् ऽनुपलक्षणात् । तात्त्विकार्थेति । शास्त्रे सिद्धान्तित एवाऽर्थः तात्त्विको भवति । तात्त्विकमर्थमेव यः स्वीकरोति स नयो निश्चयनय इत्यर्थः । स पुनः - निश्चयः पुनः । पुनः शब्दोऽयं त्वर्थे, तेन व्यवहारनयादस्य वैशिष्ट्यं प्रतिपाद्यते । तदेव वैशिष्ट्यमाह - मन्यते इत्यादिना । पञ्चवर्णो भ्रमर इत्यभ्युपगच्छति निश्चयनय इत्यर्थः । कथमस्य पञ्चवर्णत्वं येन श्रद्दधीमहि तद्व्यपदेशकस्य निश्चयनयस्य तात्त्विकार्थाभ्युपगमपरत्वमित्याकाङ्क्षायामाह - बादरेति । तच्छरीरस्य-भ्रमरशरीरस्य । यदि पञ्चवर्णो भ्रमरः तर्हि शुक्लरूपादिकमपि श्यामरूपवदेतच्छरीरे उपलभ्येत, नोपलभ्यते चैतावता श्यामवर्णत्वमेव किमिति न कल्प्यते इत्यत आह- शुक्लादीनां चेति । सन्त्येव तत्र शुक्लादीनि, परं श्यामरूपेण न्यग्भूतानि = तिरोभूतानि तानि, एतावताऽनुपलक्षणात्-प्रत्यक्षेऽभासनात् । न त्वनुपलम्भमात्रेणाऽसत्त्वमेव तेषां - बादरस्कन्धत्वेन तत्र तेषां सद्भावस्य प्रमितत्वात् । तिरोभवनप्रभावितानुपलम्भतोऽप्यसत्त्वे दिवा सूर्यकरावमर्शाभिभूतत्वाद् नक्षत्राणामप्यसत्त्वं स्यादित्यर्थः । " व्यवहारनिश्चयनययोः स्वरूपनिरूपणे प्रकारान्तरमाविष्करोति अथवा एकनयमतार्थंग्राही व्यवहारः, सर्वनयमतार्थग्राही च निश्चयः १ । अथवेत्यादिनैव चाऽयं प्रकारो विशेषावश्यके उपदर्शितः । तत्पाठो यथा - " अथवा यत्किमप्येकैकस्य नयस्य मतम्, तद् व्यवहारः प्रतिपद्यते, नाऽन्यत् । कुतः ? यस्मात् सर्वथा सर्वैरपि प्रकारैर्विशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोति - स्थूलदर्शित्वादिति । विनिश्चयस्तु-निश्चयनयो यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यते । (वि० बृ० गा० ३५९०) इति । निश्चयनयस्य सर्वमतार्थग्राहित्वे प्रमाणत्वं प्रसज्येतेत्याशङ्क्य प्रतिक्षिपति न चैवं निश्चयस्य प्रमाणत्वेन नयत्वव्याघातः - सर्वनयमतस्याऽपि स्वार्थस्य तेन प्राधान्याभ्युपगमात् । य एव [सर्वनयमतोऽपि] स्वाभिमतोऽपि यदि, तदा तं प्राधान्येनाऽयमुररीकरोति, यश्च 'अथवा एकनय' - अत्र रत्नप्रभायामुद्धृतः 'अथवा यत् ०' इति भाष्यपाठः समस्ति । २०९ १. इत्थमप्यस्य सङ्गतिः कर्तुं शक्यते - भावनिक्षेपस्य सकलनयमान्यत्वाद्, निश्चयनयस्य च भावमात्रग्राहित्वात् सकलनयमतार्थग्राहित्वम् । व्यवहारस्य तु न तथा तस्य नामादेरपि ग्राहकत्वात्, शब्दनयैर्नामादीनामनभ्युपगमादिति ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy