________________
नयपरिच्छेदः प्रमाणनयनिक्षेपैरित्यनेन प्रमाणनयनिक्षेपाणां त्रयाणामुद्दिष्टत्वेऽपि प्रथमं प्रमाणस्योद्देशात्, तज्जिज्ञासाया एव प्रथममुत्थितत्वात्, ततः प्रथमं प्रमाणे निरूपिते तज्जिज्ञासारूपप्रतिबन्धकोपशान्तः, तदनन्तरमुद्दिष्टत्वेन निक्षेपनिरूपणतः प्राक् नयजिज्ञासाया एवोल्लासः । ततः प्रमाणनिरूपणानन्तरमवश्यवक्तव्यत्वलक्षणावसरसङ्गत्या नयनिरूपणमित्याशयमाविष्कुर्वन् श्रीमान् यशोविजयोपाध्यायो नयनिरूपणं प्रतिजानीते
प्रमाणान्युक्तानि । अथ नया उच्यन्ते ।
प्रमाणान्युक्तानीत्यनेन प्रमाणनिरूपणस्य वृत्तत्वकथनेन स्वविषयसिद्धिनिवायाः प्रमाणजिज्ञासाया नयनिरूपणप्रतिबन्धिकाया निवृत्तिरावेदिता । अथ-प्रमाणनिरूपणानन्तरम्, अनेन चाऽवसरसङ्गत्या निरूपणम् । नया इत्यनेन निरूपणविषयस्याऽऽविष्कारः । उच्यन्ते इत्यनेन तद्विषयकप्रतिपत्त्यनुकूलव्यापारलक्षणप्रतिज्ञाऽप्यावेदिता ।
नयान् लक्षयति
प्रमाणपरिच्छिन्नस्याऽनन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणः तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा 'नयाः ।
नया इति लक्ष्यवचनम्, प्रमाणेत्यादि लक्षणवचनम् । नया इति बहुवचनतो '२यावन्तो वचनवादाः, तावन्तो नया' इति वचनाद् विशेषतो नयानामानन्त्यमिति संसूचनम् ।
प्रमाणपरिच्छिन्नस्येति । अन्यत्र ३श्रुतप्रमाणपरिच्छिन्नस्येति निर्दिष्टत्वेऽपि, अत्र प्रमाणसामान्याभिधानं स्याद्वादसंस्कारवतः पुंसः तबलात् प्रत्यक्षादिप्रमाणेऽपि स्याद्वादार्थगतिरस्त्येवेति तथाविधप्रत्यक्षादिप्रमाणपरिच्छिन्नत्वमप्यनन्तधर्मात्मकवस्तुन इत्यावेदनाय । अत एव सप्रपञ्चप्रत्यक्षपरोक्षस्वरूपतया प्रमाणनिरूपणमपि सङ्गच्छते, अन्यथा केवलज्ञानसकलादेशात्मकवचनयोरेव प्रमाणतयाऽभिधानं न्याय्यं भवेदिति बोध्यम् ।
एकदेशग्राहिण इति । प्रधानतयाऽनन्तधर्मात्मकवस्तुनः शरीरसन्निविष्टत्वेनैकदेशस्याऽवयवरूपस्याऽस्तित्वादितत्तद्धर्मस्य ग्राहकाः । प्रधानतयेति पूरणाद् गौणतया तदन्यदेशग्राहिण इत्यपि लभ्यते । अत एव च यावतामेव वस्तुधर्माणां प्रधानतयाऽवगाहकात् प्रमाणादस्य भेदः ।
१. सर्व वस्त्वनन्तधर्मात्मकतया सङ्कीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनाऽपि तथैव भवितव्यमिति
असङ्कीर्णप्रतिनियतधर्मप्रकारकव्यवहारसिद्धये नयानां सामर्थ्यम् । २. "जावइया वयणपहा, तावइया चेव हुँति नयवाया ॥"- सम्मतितर्क (३.४७) । अयमत्राऽभिप्राय:
वस्त्वेकधर्मप्रतिपादनपराणां प्रमात्रभिप्रायाणां नयत्वाभिधानाद्, वस्तुनश्चाऽनन्तधर्मवत्त्वादनन्ता नयाः
सम्भवन्ति । तथापि प्राक्तनाचार्यैः सर्वाभिप्रायसङ्ग्राहकसप्ताभिप्रायकल्पनया सप्तनया: प्रतिपादिताः । ३. नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य० ॥ प्रमाणनयतत्त्वालोकः ७.१ ।