SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९० सटीकजैनतर्कभाषायां उत्तरयतिउच्यते-काल आत्मरूपमर्थः सम्बन्ध उपकारः गुणिदेशः संसर्गः शब्द इत्यष्टौ । काल एकः, द्वितीयमात्मरूपम्, अर्थः तृतीयः, सम्बन्धः चतुर्थः, उपकारः पञ्चमः, गुणिदेशः षष्ठः, संसर्गः सप्तमः, शब्दोऽष्टमः-इत्येवमष्टसङ्ख्यकाः कालादय इत्यर्थः । तदुक्तं 'कालात्मरूपसम्बन्धाः, संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः ॥' इति । तत्रास्तित्वाद्येकधर्मस्य नास्तित्वादिभिरन्यैर्धर्मः समं कालादिनाऽभेदवृत्तिमुपपादयति तत्र-स्याद् जीवादिवस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽभेदवृत्तिः, यदेव चाऽस्तित्वस्य तद्गुणत्वमात्मरूपं तदेवाऽन्यानन्तगुणानामपीत्यात्मरूपेणाऽभेदवृत्तिः, य एव चाऽधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः, य एव चाऽविष्वग्भावः सम्बन्धोऽस्तित्वस्य स एवाऽन्येषामिति सम्बन्धेनाऽभेदवृत्तिः, य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवाऽन्यैरपीत्युपकारेणाऽभेदवृत्तिः, य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवाऽन्येषामिति गुणिदेशेनाऽभेदवृत्तिः, य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवाऽन्येषामिति संसर्गेणाऽभेदवृत्तिः, गुणीभूतभेदादभेदप्रधानात् सम्बन्धाद् विपर्ययेण संसर्गस्य भेदः, य एव चाऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाऽशेषानन्तधर्मात्मकस्याऽपीति शब्देनाऽभेदवृत्तिः, पर्यायार्थिकनयगुणभावेन द्रव्याथिकनयप्राधान्यादुपपद्यते । तत्र-कालादिषु मध्ये । तेषां धर्माणाम् । कालेनाऽभेदवृत्तिरिति । 'कालावच्छेदेन वस्तुनि घटादावस्तित्वादिधर्मस्य प्रतीतेः वस्तुनिरूपित-अस्तित्वनिष्ठवृत्तितायां कालस्याऽवच्छेदकत्वम् । तत्सम्बन्धिन एव तन्निष्ठधर्मावच्छेदकत्वमिति नियमेन कालस्याऽस्तित्वादिधर्मसम्बन्धित्वमावश्यकम् । कालेन सह धर्मस्याऽस्तित्वादेः सम्बन्धः कालिकः । सोऽपि सर्वसम्बन्धव्यापककथञ्चित्तादात्म्यव्याप्य इति कथञ्चित्तादात्म्यमपि कालेऽस्तित्वादेः सम्बन्धः । एवञ्च तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन कथञ्चिदस्तित्वाभिन्नकालाभिन्नकथञ्चिन्नास्तित्वादिधर्माणां कथञ्चिदस्तित्वाभिन्नत्वमित्येवं कालेनाऽभेदवृत्तिः । अनयैव दिशाऽऽत्मरूपादिनाऽभेदवृत्तिरपि बोध्येत्याशयः ।। आत्मरूपेणाऽभेदवृत्ति दर्शयति-तद्गुणत्वं घटादिधर्मिगुणत्वम् । तदेव-घटादि१. 'इदानीं घट' इत्यादौ वर्तमानादिकालावच्छेदेन घटद्यस्तित्वप्रतीतिः ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy