SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १८६ सटीकजैनतर्कभाषायां चतुर्थभङ्गं निरूपयतिस्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः । आद्याः त्रयः सकला, अन्त्याः चत्वारो विकलादेशा इत्युपगच्छद्भिः सूरिभिरयं भङ्गः तृतीयतया, एतत्स्थाने च 'स्यादस्त्येव स्यान्नास्त्येवे'ति भङ्गः प्रथ्यते । पूर्वत्र विधिनिषेधयोः क्रमिकप्राधान्यकल्पना, अत्र तु तयोर्युगपत्प्राधान्यकल्पना बीजम् । कथञ्चिदवक्तव्यत्वाख्यधर्ममात्रप्रकारकघटादिविशेष्यकबोधोऽनेन भङ्गेन जन्यते, तत एव चोक्तभङ्गत्रयादस्य भेदः । निरुक्तबोधजनकवाक्यत्वं चतुर्थभङ्गस्य लक्षणम् । विधिनिषेधयोर्युगपत्प्राधान्यविवक्षाया युगपत्प्रधानीभूतविधिनिषेधोभयप्रतिपादकस्यैकस्य कस्यचिद् वचनस्याऽवक्तव्यशब्दभिन्नस्याऽभावात् कथञ्चिदवक्तव्यत्वमुपपादयति एकेन पदेन युगपदुभयोर्वक्तुमशक्यत्वात् । 'शतृशानचौ स'दित्यादौ साङ्केतिकपदेनाऽपि क्रमेणाऽर्थद्वयबोधनात् । अन्यतरत्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणाऽपि दुरुपपादत्वात् । उभयो:-विधिनेषधयोः । शतृशानच्-सङ्केतित-'सत्'पदाद् यथा शतृशानचोः प्रतीतिः, तथैकेन विधिनिषेधोभयसङ्केतितेन तदुभयप्रतीतिर्भविष्यतीति कश्चिद् ब्रूयात्, तत्राऽऽहशतृशानचाविति । यद्यपि तदुभयसङ्केतितं 'सत्' पदम्, तथापि तेन तद्द्वयबोधस्तु क्रमेणैव, न तु युगपदेव । विधिनिषेधोभयसङ्केतितैकपदविशेषादपि क्रमिकतदुभयबोध एव भवेदित्यर्थः । विधिनेषधान्यतरत्वेन रूपेण तदुभयसङ्केतितपदाद् युगपत् तदुभयबोधस्तु न प्रत्येकासाधारणास्तित्वनास्तित्वादिरूपेण । तादृशरूपेणैव तु युगपत्प्रधानतया विवक्षितौ विधिनिषेधावित्याहअन्यतरत्वादिनेति । आदिपदाद् उभयत्वप्रमेयत्वज्ञेयत्ववाच्यत्वादेरुपग्रहः । अन्यत् सुगमम् । अत्र समासवचनं तत्प्रतिपादकं न सम्भवति-समासेषु बहुव्रीहेरन्यपदार्थप्रधानत्वाद्, अत्र तूभयप्राधान्यविवक्षणात्, अव्ययीभावस्तु नैतादृशेऽर्थे प्रवर्तते, द्वन्द्वस्तु द्रव्यवृत्तिर्नाऽत्रोपयुज्यते, गुणवृत्तिरपि द्रव्याश्रितगुणप्रतिपादको न प्राधान्येन गुणप्रतिपादनप्रगल्भः । उत्तरपदार्थप्रधानतत्पुरुषस्याऽपि नाऽत्राऽवकाशः । सङ्ख्यावाचिपूर्वपदकस्य द्विगोस्तु नेदृशोऽर्थो विषयः । कर्मधारयोऽपि गुणाधारद्रव्यविषयो नाऽत्र क्रमते । समासान्तरं तु नाऽस्त्येव । वृत्त्यसम्भिन्नार्थकस्य वाक्यस्याऽपि कस्यचिद् न तथाभूतधर्मद्वयप्रतिपादकत्वमित्या 'शतृशानचौ'-"तौ सदिति शतृशानयोः सङ्केतितसच्छब्दवत् द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकम् इत्यनेनापास्तम्, सदसत्त्वे इत्यादिपदस्य क्रमेण धर्मद्वयप्रत्यायनसमर्थत्वात् ।" तत्त्वार्थश्लोकवा० पृ० १४० ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy