SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ हेतुप्रकाराः १६९ उक्तान् प्रकारान् क्रमेणोदाहरति यथा-नाऽस्त्यत्र भूतले कुम्भः-उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलम्भात् । नाऽस्त्यत्र पनसः-पादपानुपलब्धेः । नाऽस्त्यत्राऽप्रतिहतशक्तिकं बीजम्अङ्कुरानवलोकनात् । न सन्त्यस्य प्रशमप्रभृतयो भावा:-तत्त्वार्थश्रद्धानाभावात् । नोद्गमिष्यति मुहूर्तान्ते स्वाति:-चित्रोदयादर्शनात् । नोदगमत् पूर्वभद्रपदा मुहूर्तात् पूर्वम्उत्तरभद्रपदोद्गमानवगमात् । नाऽस्त्यत्र सम्यग्ज्ञानं-सम्यग्दर्शनानुपलब्धेरिति । नाऽस्त्यत्र कुम्भः-उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलब्धेरित्यत्र भूतलादिपुरोवर्तिदेशे घटो निषिध्यते अर्थाद् घटाभावः साध्यते इति प्रतिषेध्यो घटः, तस्याऽविरुद्धः उपलब्धिलक्षणप्राप्तोऽर्थात् तच्चाक्षुषप्रत्यक्षजनकघटतद्व्याप्येतरा(?)लोकादिसमवधाने सतिप्रत्यक्षयोग्यतापनः तत्स्वभाव:=पृथुबुध्नाद्याकारविशिष्टघटस्वरूपम्, तस्याऽनुपलम्भो विषयतया तदुपलब्ध्यभावो भवति प्रतिषेध्याविरुद्धस्वभावानुपलब्धिलक्षणः प्रथमः । नाऽस्त्यत्र पनसः-पादपानुपलब्धेरित्यत्र पनसाभावस्य साध्यत्वेन, प्रतिषेध्यः पनसो वृक्षविशेषः, तस्याऽविरुद्धो व्यापको वृक्षः, सामान्यस्य विशेषव्यापकता सुप्रतीतैव, तस्याऽनुपलम्भादुपलब्ध्यभावो भवत्येव प्रतिषेध्याविरुद्धव्यापकानुपलम्भात्मा द्वितीयः । नाऽस्त्यत्राऽप्रतिहतशक्तिकं बीजम्-अङ्करानुपलब्धेरित्यत्र अप्रतिहतसामर्थ्य कारणे सति कार्यमवश्यमेव भवतीति प्रतिसन्धाय, अङ्करलक्षणकार्यानुपलब्ध्या क्षेत्रविशेषेऽप्रतिहतसामर्थ्यकं बीजं निषिध्यते, तस्याऽविरुद्ध कार्यमङ्करम्, तदनुपलब्धिर्भवति प्रतिषेध्याविरुद्धकार्यानुपलब्धिरूपतृतीयः । न सन्त्यस्य प्रशमप्रभृतयो भावाः-तत्त्वार्थश्रद्धानाभावादित्यत्र रथ्यापुरुषसमकक्षे पुरुषविशेषे सम्यग्दर्शनकार्याणां प्रशमप्रभृतीनामभावः साध्यते इति प्रशमप्रभृतयो भावाः प्रतिषेध्याः, तेषामविरुद्धं कारणं तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनम्, तदनुपलम्भः तदभावो भवति प्रतिषेध्याविरुद्धकारणानुपलब्ध्यात्मा तुरीयः । नोद्गमिष्यति मुहूर्तान्ते स्वाति:चित्रोदयादर्शनादित्यत्र चित्रोदयादर्शनहेतुना मुहूर्त्तानन्तरं भविष्यत्स्वातिनक्षत्रोदयाभावः साध्यते इति प्रतिषेध्यः तादृशस्वातिनक्षत्रोदयः, तस्याऽविरुद्धः पूर्वचर: चित्रानक्षत्रोदयः, तददर्शनं= तदभावो भवति प्रतिषेध्याविरुद्धपूर्वचरानुपलब्ध्यात्मा पञ्चमः । नोदगमत् पूर्वभद्रपदा मुहूर्तात् पूर्वम्-उत्तरभद्रपदोद्गमानवगमादित्यत्र उत्तरभद्रपदोद्गमानवगमेन मुहूर्तात् पूर्वभूतपूर्वचरोद्गमस्याऽभावः साध्यते इति प्रतिषेध्यः तादृशपूर्वभद्रपदोद्गमः, तस्याऽविरुद्ध उत्तरचरः उत्तरभद्रपदोद्गमः, तदनवगमः तदभावो भवति प्रतिषेध्याविरुद्धोत्तरचरानुपलब्ध्यात्मा षष्ठः । नाऽस्त्यत्र सम्यग्ज्ञानं-सम्यग्दर्शनानुपलब्धेरित्यत्र सम्यग्दर्शनाभावेन हेतुना पुरुषविशेषे सम्यग्ज्ञानाभावः साध्यते, तत्प्रतियोगित्वात् प्रतिषेध्यं सम्यग्ज्ञानम्, तस्याऽविरुद्धं सहचरं
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy