________________
परार्थानुमानाङ्गादि
१५९ "नन्वेवं प्रसङ्गेऽङ्गीक्रियमाणे 'बुद्धिरचेतना उत्पत्तिमत्त्वा'दित्ययमपि साङ्ख्येन स्थापितः प्रसङ्गहेतुर्भविष्यति । तथा हि-यदि बुद्धिरुत्पत्तिमती भवद्भिरभ्युपगम्यते, तदानीं तद्व्यापकमचैतन्यमपि तस्याः स्याद्, न चैवमतो नोत्पत्तिमतीयम्" इति ।
'प्रसङ्गविपर्यहेतो'रित्याद्येतद्ग्रन्थसमाधानग्रन्थसमानाभिप्रायकश्च रत्नाकरग्रन्थो यथा
"प्रसङ्गविपर्ययहेतोमौलस्य चैतन्याख्यस्य सायानां बुद्धावपि प्रतिषिद्धत्वात् । चैतन्यस्वीकारेऽपि नाऽनयोः प्रसङ्गविपर्ययोर्गमकत्वम्-अनेन प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षे बाधकप्रमाणस्याऽनुपस्थापनात्-चैतन्योत्पत्तिमत्त्वयोर्विरोधाभावाद् । एवं हि अचेतनत्वेनोत्पत्तिमत्त्वं व्याप्तं भवेद, यदि चैतन्येन तस्य विरोधः स्याद्, नाऽन्यथा, न चैवमिति नैतौ प्रसङ्ग-तद्विपर्ययौ गमकौ भवतः" इति ।
परार्थानुमाने हेतुप्रयोगप्रकारमुपदर्शयति
हेतुः साध्योपपत्त्यन्यथानुपपत्तिभ्यां द्विधा प्रयोक्तव्यः । यथा-पर्वतो-वह्निमान्सत्येव वह्नौ धूमोत्पत्तेः, असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्राऽनुपयोगः।
हेतुरित्यस्य प्रयोक्तव्य इत्यनेनाऽन्वयः । साध्योपपत्त्यन्यथानुपपत्तिभ्यां साध्ये सत्येव हेतोरुपपत्तिः साध्योपपत्तिः, साध्यं विना हेतोरनुपपत्तिरन्यथानुपपत्तिः, ताभ्याम् । द्विधाद्विप्रकारः । एतत् प्रकारद्धयं क्रमेणोदाहरति-यथेति । असत्यनुपपत्तेः वह्नावसति धूमस्याऽनुपपत्तेः । यत्र परेण 'धूमा दिति प्रयुज्यते, तत्र स्याद्वादिना 'वह्नौ सत्येव धूमस्योपपत्ते'रिति 'वह्नावसति धूमस्याऽनुपपत्ते'रिति वा प्रयुज्यते । वाकारेणैतत् कथयति यद् एकप्रयोगतोऽपि प्रकृतार्थसिद्धिनिर्वाहाद् द्वयोर्मध्यात् कामचारमेकस्य प्रयोगो विधेय इति । तदेव स्पष्टयतिअनयोरिति । साध्योपपत्त्यन्यथानुपफ्त्योरित्यर्थः । अन्यत् स्पष्टम् ।
पक्षहेतुवचनात्मकमनुमानमिति यत् प्रागुक्तं तदेव व्यवस्थापयति
पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपत्त्यङ्गम्, न दृष्टान्तादिवचनंपक्षहेतुवचनादेव परप्रतिपत्तेः । प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्स्मरणस्याऽपि पक्षहेतुदर्शनेनैव सिद्धेः। ...
एवकारोद्भावनप्रयोजनमाह-न दृष्टान्तेति । दृष्टान्तादिवचनं न परप्रतिपत्त्यङ्गमतोनैयायिकस्य प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्मकपञ्चावयवस्य, मीमांसकस्य प्रतिज्ञाहेतूदाहरणात्मकावयवत्रिकस्य उदाहरणोपनयनिगमनलक्षणावयवत्रयस्य वा, बौद्धस्योदाहरणोपनयात्मकावयवद्वयस्य च परप्रतिपत्त्यङ्गतया परार्थानुमानत्वकथनम्-अयुक्तमित्यावेदितम् ।