SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ विकल्पसिद्धधर्मिचर्चा १४३ 'शशशृङ्गं नाऽस्ती'ति वचनलक्षणव्यवहारस्याऽप्यसम्भवे, अत्राऽर्थे भवतामपि मूकीभवनमेव न्याय्यमिति "यत्रोभयोः समो दोषः, परिहारोऽपि वा समः । नैक: पर्यनुयोज्य: स्यात्, तादृश्यर्थविचारणे ॥" इति वचनाद् न नैयायिकं प्रति तूष्णीम्भावापत्तिर्दूषणं भवद्भिरासञ्जनीयमित्याशङ्काशङ्कन्मूलनायाऽऽह इदं त्ववधेयम् 'ननु विकल्पसिद्धो धर्मी नास्ति' इत्यादिवचनस्य उपपत्त्यसंभवप्रतिपादनेन विकल्पसिद्धधर्म्यनङ्गीकारवतो नैयायिकान् प्रति यद् मौनापत्तिरूपं दूषणं दत्तं तद् जैनमतेऽपि समानम्, तत्रापि हि 'असतो नत्थि निसेहो' इति भाष्यानुरोधेन असत्ख्यात्यनभ्युपगमात् अभावांशे असतः प्रतियोगिनो विशेषणतया भानाऽसंभवात् 'शशशृङ्गं नाऽस्ति' इत्यादितः विशिष्टविषयकशाब्दबोधानुपपत्त्या तादृशवचनव्यवहारस्य असम्भवात् इत्याशङ्कां निराकर्तुं तादृशस्थले शाब्दबोधोपपादनाय अनुमित्युपपादनाय च ग्रन्थकारः स्वाभिप्रेतां प्रक्रियामादर्शयति 'इदं त्ववधेयम्' इत्यादिना । अयं भावः-विकल्पसिद्धर्मिस्थलीये शाब्दबोधे अनुमितौ वा विकल्पसिद्धस्य धर्मिणो भाने त्रय एव पक्षाः सम्भवन्ति, तथाहि-तस्य अखण्डस्यैव वा भानम्, विशिष्टरूपतया वा, खण्डशः प्रसिद्धतया वा। तत्र स्वसिद्धान्तविरोधितया प्रथमपक्षो नाऽङ्गीकर्तुं शक्यते । जैनसिद्धान्ते हि सर्वत्रापि ज्ञाने सत एव भानाभ्युपगमेन असतो भानस्य सर्वथा अनभिमतत्वात् । विकल्पसिद्ध-धमिणः प्रमाणासिद्धत्वेन अखण्डस्याऽसत्त्वात् अखण्डतद्भानाभ्युपगमे असद्भानस्याऽवर्जनीयत्व-मेव। द्वितीयपक्षस्तु कथञ्चिदभ्युपगमार्हः । यत्र स्थले 'शशशृङ्गं नास्ति' इत्यादौ 'शृङ्ग शशीयं न वा' इत्यादिर्न संशयः, न वा 'शृङ्गं शशीयं न' इति बाधनिश्चयस्तत्र अभावांशे शशीयत्वविशेषणविशिष्टस्य शृङ्गस्य भाने बाधकाभावात् । यत्र च स्थले तादृशः विशेषणसंशयः तादृशो विशेषणबाधनिश्चयो वा तत्र विशिष्टभानासम्भवेऽपि 'शृङ्गे शशीयत्वज्ञानं जायताम्' इतीच्छाजनितं बाधनिश्चयकालीनमाहार्यज्ञानं सम्भवत्येव । तथा च 'शशशृङ्गं नाऽस्ति' इत्यादिशाब्दबोधे 'एतत् स्थानं शशशृङ्गाभाववत्' इत्याद्यनुमितौ वा अभावांशे प्रतियोगितया भासमाने शृङ्गांशे शशीयत्वविशेषणस्य आहार्यभानोपपत्त्या प्रतिवादिपरिकल्पितविपरीतारोपनिराकरणाय तादृशस्य शब्दस्य तादृश्या वा अनुमितेः सुसम्भवत्वमेव । इत्थं च द्वितीयपक्षस्य उपपाद्यत्वेऽपि तत्र अनुमितेराहार्यात्मकत्वमेकदेशीयाभिमतमेव कल्पनीयमिति तत्पक्षपरित्यागेन सर्वथा निर्दोषस्तृतीयपक्ष एव आश्रयितुमुचित इति मत्वा ग्रन्थकारेण 'वस्तुतः' [पृ० १५. पं. ४.] इत्यादिना अन्ते खण्डशः प्रसिद्धपदार्थभानगोचरस्तृतीयपक्ष एव समाश्रितः । तथा च 'शशशृङ्गं नास्ति' इत्यादौ अभावांशे
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy