SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३८ सटीकजैनतर्कभाषायां पेक्षायामाह धर्मिणः प्रसिद्धिश्च-क्वचित् प्रमाणात्, क्वचिद् विकल्पात्, क्वचित् प्रमाणविकल्पाभ्याम् । तेषां स्वरूपमुपदर्शयति तत्र निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् । तत्र-प्रमाणप्रसिद्धत्व-विकल्पप्रसिद्धत्व-प्रमाणविकल्पोभयप्रसिद्धत्वानां मध्ये । प्रत्यक्षादीत्यादिपदात् परोक्षप्रकाराणां स्मृतिप्रत्यभिज्ञातर्कानुमानागमानामुपग्रहः । अवधृतत्वं निश्चितत्वम् । 'शब्दानुपाती वस्तुशून्यो विकल्प' इति परलक्षितविकल्पस्य वस्तुमात्रविषयकत्वाभावेन निर्णीततया, तत्प्रसिद्धत्वमसम्भवदुक्तिकमित्यतो विकल्पप्रसिद्धत्वमन्यथा निर्वक्ति-अनिश्चितेति । न निश्चितमनिश्चितम्, अनिश्चिते प्रामाण्याप्रामाण्ये यस्य सोऽनिश्चितप्रामाण्याप्रामाण्यः, तादृशो यः प्रत्ययः ज्ञानम्, तद्गोचरत्वं-तद्विषयत्वम्, तदेव विकल्पप्रसिद्धत्वमिह विवक्षितमित्यर्थः । तद्वयविषयत्वं निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमप्रमाणअनिश्चित-प्रामाण्याप्रामाण्यप्रत्ययोभयविषयत्वम् । तत्र प्रमाणप्रसिद्धं धर्मिणमुदाहरति तत्र प्रमाणसिद्धो धर्मी यथा धूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः, स खलु प्रत्यक्षेणाऽनुभूयते । तत्र-निरुक्तत्रयाणां मध्ये, स-पर्वतः । विकल्पसिद्ध धर्मिणं दर्शयति विकल्पसिद्धो धर्मी यथा 'सर्वज्ञोऽस्ति-सुनिश्चितासम्भवद्बाधकप्रमाणत्वा'दित्यस्तित्वे साध्ये सर्वज्ञः, अथवा 'खरविषाणं नाऽस्तीति नास्तित्वे साध्ये खरविषाणम् । अत्र हि सर्वज्ञखरविषाणेऽस्तित्वनास्तित्वसिद्धिभ्यां प्राग् विकल्पसिद्धे। अत्र-सर्वज्ञोऽस्तीत्यनुमाने, खरविषाणं नाऽस्तीत्यनुमाने च, हि-यतः । उभयसिद्धं धर्मिणमुदाहरति उभयसिद्धो धर्मी यथा 'शब्दः-परिणामी-कृतकत्वा'दित्यत्र शब्दः । स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यन् च विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाण
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy