SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ८६ सटीकजैनतर्कभाषायां ज्ञानवदित्यर्थः । दृष्टान्तदा@न्तिकभावनामाह-यथेति । इदम् = अननुगामिकावधिज्ञानम्, अलं = समर्थम् । अन्यत् स्पष्टम् । वर्धमानावधिज्ञानं निरूपयति उत्पत्तिक्षेत्रात् क्रमेण विषयव्याप्तिमवगाहमानं वर्धमानम्, अधरोत्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवद् । यथाऽग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद् विवृद्धिमुपागच्छति, एवं परमशुभाध्यवसायलाभादिदमपि पूर्वोत्पन्नं वर्धते इति । यस्मिन् क्षेत्रे पुंसोऽवधिज्ञानमुत्पन्नं तद् उत्पत्तिक्षेत्रम्, तत्र यावद्रूपिविषयकमवधिज्ञानं तदुत्तरोत्तरक्षणे क्रमेण तावद्विषयाधिकविषयमवगाहमानमवधिज्ञानमधिकाधिकविषयकत्वेन वर्धमानमिति वर्धमानावधिज्ञानं तदित्यर्थः । एतदेव दृष्टान्तावष्टम्भेन द्रढयति-अधरोत्तरेति । एकमरणि-शुष्कं काष्ठमधः स्थितमन्यं चाऽरणि-शुष्कं काष्ठं तदुपरि स्थितं कृत्वा, तयोः परस्परनिघर्षणलक्षणनिर्मन्थनेनोत्पन्नोऽनन्तरोपादीयमानेन शुष्केन काष्ठेनोपचीयमानो वृद्धिङ्गतो यो निरन्तरमाधायमानानामिन्धनानां राशिना = समूहेन जन्योऽग्निः तद्वदित्यर्थः । दृष्टान्तदार्टान्तिकयोर्भावनामाह-यथेति । इदम् = वर्धमानावधिज्ञानम् । व्यक्तमन्यत् । हीयमानावधिज्ञानं निरूपयति उत्पत्तिक्षेत्रापेक्षया क्रमेणाऽल्पीभवद्विषयं हीयमानम्, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावद्, यथाऽपनीतेन्धनाग्निज्वाला परिहीयते तथेदमपीति । ___ यस्मिन् क्षेत्रेऽवधिज्ञानं यावद्विषयकमुत्पन्नं तत्क्षेत्रापेक्षया क्रमेण तावद्विषयेभ्योऽपचीयमानविषयकं तद् अवधिज्ञानं भवतीति तद् हीयमानावधिज्ञानमित्यर्थः । अत्र निदर्शनमनुकूलमाह-परिच्छिन्नेति । परिच्छिन्नस्य = अल्पस्य, इन्धनस्य = काष्ठस्य, उपादानं = सङ्ग्रहो यत्र तादृशी या सन्ततिः = अल्पेन्धनसमूहः, तया समुद्भूतस्याऽग्नेः शिखा = ज्वाला तद्वदित्यर्थः । भावनामाह-यथेति । तत्राऽपरापरकाष्ठानामनाधीयमानत्वात् सञ्चितस्य काष्ठस्य प्रतिक्षणं दाहतोऽल्पीभवनादुत्तरोत्तरमग्निज्वालाऽल्पाल्पतरा भवतीति प्रत्यक्षसिद्धमेतत् । इदं = हीयमानावधिज्ञानम् । प्रतिपात्यवधिज्ञानं निरूपयति उत्पत्त्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवद्, यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते तथेदमपीति ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy