SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अवग्रहादिक्रमदर्शनम् ७३ नञः उत्पद्यन्ते इत्यनेनाऽन्वयः । अत्र पश्चानुपूर्वीभवनमुत्क्रमः, तद् यथा - पूर्वं धारणा ततोऽपायः तत ईहा ततोऽवग्रह इति । अनानुपूर्वीभवनं व्यतिक्रमः, यथा - कदाचिदवग्रहमतिक्रम्येहा, तामुल्लङ्घ्याऽप्यपायः, तमतिक्रम्य धारणेति । आभ्यामुत्क्रमव्यतिक्रमाभ्यामवग्रहादयो नोत्पद्यन्ते इत्यर्थः । च पुनः । = न्यूनत्वेनेति । एषां मध्ये कदाचिदवग्रहस्यैव भवनम् कदाचिदवग्रहेहयोरेव भवनम्, कदाचिदवग्रहेहापायानामेव भवनमित्येवं न्यूनत्वेन नोत्पद्यन्ते, यतः चतुर्णामप्येषां क्रमेण भवने सत्येव वस्तुस्वभावावबोधो भवति, नाऽन्यथेति चत्वारोऽप्येतेऽभ्युपगन्तव्याः, नैकादिमात्रमित्यर्थः । अयमभिप्रायः-अवग्रहागृहीते वस्तुनि तद्विचाररूपा नेहा सम्भवति - विचारस्य विचार्यमन्तरेणाऽसम्भवात् । निश्चयलक्षणस्य चाऽपायस्य विचारपूर्वकत्वेन विचाररूपेहामन्तरेण सम्भवाभावाद्, निश्चितवस्त्वधारणरूपाया धारणाया निश्चयपूर्विकाया निश्चयात्मकापायमन्तरेणाऽसम्भवाद्, वस्त्ववगमस्यैवक्रमेणैव सम्भवित्वेनेत्थमेवैषां क्रमो युक्तो, नोत्क्रमव्यतिक्रमौ नाऽपि न्यूनत्वमिति । ननु भूयो दृष्टे विकल्पिते भाषिते च वस्तुनि पुनश्चाऽवलोकितेऽवग्रहेहाद्वयमतिक्रम्य प्रथमत एवाऽपायप्रवृत्तिर्दृश्यते, क्वचित् पुनः पूर्वमुपलब्धे सुनिश्चिते दृढवासनाविषयीकृतेऽर्थेऽवग्रहेहापायानतिक्रम्याऽपि स्मृतिलक्षणा धारणा जायते इति रिक्तमिदमुच्यते यद् 'अवग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते इतीत्यत आह क्वचिदभ्यस्तेऽपायमात्रस्य, दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणे चाऽनीहितम् अपायविषयतां याति अपायस्य निश्चयरूपत्वात्, निश्चयस्य च विचारपूर्वकत्वात् । एतदभिप्रायवता चाऽपायस्याऽऽदौं ईहा निर्दिष्टेति । न चाऽपायेनाऽनिश्चितं धारणाविषयीभवति वस्तु- धारणाया अर्थावधारणरूपत्वात्, अवधारणस्य च निश्चयमन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादौ अपायः । ततः किम् ? तेनाऽवग्रहादिक्रमो न्याय्यः, नोत्क्रमाऽतिक्रमौ यथोक्तन्यायेन वस्त्ववगमाभावप्रसङ्गात् । "- विशेषा० बृ० गा० २८६ । “ज्ञेयस्याऽपि शब्दादेः स स्वभावो नाऽस्ति य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः समकालभाविभिः उत्क्रमातिक्रमवद्भिश्चाऽवगम्येत, किन्तु शब्दादिज्ञेयस्वभावोऽपि तथैव व्यवस्थितो यथा अमीभिः सर्वैः भिन्नैः असमकालैः उत्क्रमातिक्रमरहितैश्च सम्पूर्णो यथावस्थितश्चाऽवगम्यते अतो ज्ञेयवशेनाऽप्येते यथोक्तरूपा एव भवन्ति । " - विशेषा० बृ० गा० २९७ । प्र० न०२. १४१७ । 'क्वचिदभ्यस्ते' 44 'अत्र परः प्राह - अनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये पुनः '—
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy