________________
શ્રી જૈન હિતોપદેશ ભાગ ૩ જે
॥ २४ ॥ शास्त्राऽष्टकम् ॥ चर्मचक्षुर्भूतः सर्वे, देवाश्वावधिचक्षुषः॥ सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः॥१॥ पुरस्थितानिवोधि, स्तिर्यगलोक विवर्तिनः॥ सर्वान् भावानपेक्षन्ते, ज्ञानिनः शास्त्रचक्षुषा ॥२॥ शासनात् त्राणशक्तेश्व, बुधैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ॥३॥ शास्त्रे पुरस्कृते तस्माद्, वीतरागः पुरस्कृतः ॥ पुरस्कृते पुनस्तस्मिन् , नियमात् सर्वसिद्धयः॥ ४ ॥ अदृष्टाऽर्थेऽनुधावंतः, शास्त्र दीपं विना जडाः ॥ प्राप्नुवन्तिपरं खेदं, प्रस्खलन्तः पदे पदे ॥ ५॥ शुद्धोंच्छाद्यपि शास्त्राज्ञा, निरपेक्षस्य नो हितं ॥ भौतहंतुर्यथा तस्य, पदस्पर्श निवारणं ॥६॥ अज्ञानाहि महामंत्रं, स्वाच्छंद्यज्वर लंघनं ॥ धर्मारामसुधाकुल्यां, शास्त्रमाहुमहर्षयः ॥७॥ शास्त्रोक्ताचारकर्ता च, शास्त्रज्ञः शास्त्रदेशकः॥ शास्त्रैकदृग् , महायोगी, प्राप्नोति परमं पदम् ॥ ८॥