SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। दिविरहाच्च । वस्तुतो 'मुखत्ववद्यन्मुखं तद्भाति' इति बोधात् । अत एवोक्तबोधात् 'चैत्रो मुखत्वप्रकारकज्ञानवान्न वा' इति संशयानिवृत्तिः । अतश्च–'अरविन्दसादृश्यवन्मुखं भाति' इत्यत्रापि वस्तुतः 'अरविन्दसाहश्यवन्मुखं ज्ञानविषयः' इत्येव बोधः, 'मानान्तरेण चैत्रीयज्ञानस्य सादृश्यप्रकारकत्वनिश्चये 'तत्सादृश्यप्रकारकज्ञानवान्न वा' इति संशयनिवृत्तिः, न त्वन्यथा' इत्यनुभवसिद्धमेतत् ॥ तदवच्छिन्नप्रकारताकज्ञाननिश्चयस्यैव तदवच्छिन्नप्रकारताकज्ञानाभावबुद्धिप्रतिबन्धकत्वात् । 'अरविन्दसुन्दरं मुखं मम भाति' इत्युक्तौ तु वाक्यार्थज्ञानविधया वक्तरि सादृश्यप्रकारकत्वं ज्ञानस्य लभ्यते । अत एव 'अरविन्दसुन्दरमुखं बालानां यथावस्थितमेव भाति' इत्यादावपि न ज्ञाने तत्प्रकारकत्वलाभ इति स्पष्टमेव ॥ __ अपि च 'अरविन्दमिव भाति' इत्यस्मात् 'अरविन्दसदृशं न वा' इति संशयनिवृत्तिरनुभवसिद्धा। सा च त्वदुक्तरीत्या दुर्घटा । न च क्षणविलम्बकल्पनान्निस्तारः, तत्प्रकारकधीविशेष्यत्वस्य तद्वत्त्वव्यभिचारेण तदुत्तरमपि 'अरविन्दसदृशम्' इति मानसासंभवात् । न च-तत्र प्रमाविशेष्यत्वं तदर्थः—इति वाच्यम् , 'कुमुदमिव मुखम्' इत्यादौ तदसंभवात्, जानातीत्येव प्रयोग: स्यात् , 'मुखत्वेन मुखं भाति' इत्यत्र यथा ज्ञाने मुखत्वप्रकारकत्वं लभ्यते, नैवं 'मुखत्वन्मुखं भाति' इत्यत्र, तत्र वस्तुतो मुखत्ववत्तया मुख एवान्वयादिति भावः । अत एवेति । तादृशशब्देन चैत्रनिष्ठज्ञाने मुखत्वप्रकारकत्वानुल्लेखादित्यर्थः । वस्तुत इति । वृत्तित्वोल्लेखनं ज्ञानस्य सादृश्यप्रकारकत्वाभावदर्शनमात्रार्थम् , न तु ज्ञानस्वरूपान्तर्गतमित्यवधेयम् ॥ वाक्यार्थेति । वाक्यप्रयोगहेतुभूतशाब्दबोधसमानविषयकज्ञानान्तरविधया तादृशयोगे तद्बोधस्य हेतुत्वात् । अत ईदृशस्थले ज्ञानस्य सादृश्यप्रकारकत्वलाभादन्यत्रापि तथैव स्यादिति न भ्रमितव्यमित्यर्थः । व्यभिचारेणेति । रजतत्वप्रकारकधीविशेष्यभूतायां शुक्तौ रजतत्वा. भावादित्यर्थः । प्रमेति । तद्वत्त्वं विना तद्विषयस्य तत्प्रकारकप्रमाविशेष्यत्वानुपपत्तेः । तदभाववति तत्प्रकारकज्ञानत्वस्य भ्रमत्वनियमादित्यर्थः ॥ कुमुदमिति । तत्र दुष्टोपमेत्यालंकारिकसंप्रदायादित्यर्थः ॥ तथापि तत्र सादृश्यमस्त्येवेत्यत आह १. 'अत्र च' क. २. 'यथास्थित' क. १. 'वस्तुतस्तु' क. २. 'खोल्लेख्यज्ञानस्य' क.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy