________________
काव्यमाला।
रुद्रक्रुधस्तदरिकामधियानले सा
वासार्थितामधृत काचन केतकीव ॥' अत्रोत्कण्टकादीनि विशेषणानि दमयन्तीकेतक्योः श्लिष्टानि । यथा वा मम'घनविशदारुणकरया संपन्नपयोधरोदयया ।
प्रणयिन्या घनसमयश्रियेव चेतः समुच्छसिति ॥' क्वचिदुपचारेण यथा'अच्छीइ ता थइस्सं दोअ वि हत्थेवि तम्मि दिद्वम्मि ।
अङ्गं कअम्बकुसुमं व मउलिअं कहं णु ढकिस्सम् ॥' इह मुकुलितत्वं पुष्पधर्मः, अङ्गेषूपचरितः ।
क्वापि समासभेदेन यथा_ 'विअसिअतमालणीलं पुणो पुणो चलतरङ्गकरपरिमट्ठम् ।
फुल्लेलावणसुरहिं उअहिगइन्दस्स दाणलेहं व ठिअम् ॥' अत्र विकसिततमालनीलत्वं फुल्लैलावनसुरभित्वं च तृतीयासमासेन वेलायाम्, 'उपमानानि सामान्यवचनैः' इत्युपमितसमासेन दानलेखायाम् ।
क्वचित्त्वेषां द्वयोमिश्रणेन । तत्रानुगामित्वबिम्बप्रतिबिम्बभावयोमिश्रणं
गणवृत्तित्वप्रतीतौ च मूर्तस्य युगपदुभयदेशानवस्थानात्पारिजातस्य स्वर्गवृत्त्यभावप्रतियोगित्वमाक्षेपलभ्यमिति भावः । घनेति । अतिस्वच्छौ अरुणौ रक्तवर्णी करौ हस्तौ यस्याः । पक्षे घना मेघाः तत्र प्रविशन्त आरुणा अरुणसंबन्धिनः कराः किरणा यत्र । पयोधरः स्तनो मेघश्च । 'पयोधरौ स्त्रीस्तनाब्दौ' इति शाश्वतः । आद्यविशेषणे सभङ्गश्लेषो द्वितीये त्वभङ्ग इति भेदः । उपचारेणेति । स च सादृश्यलक्षणेति स्पष्टमेव । 'अक्षिणी तावत्स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन्दृष्टे । अङ्गं कदम्बकुसुममिव मुकुलितं कथं नु छादयिष्यामि ॥' मानवत्याः सखी प्रत्युक्तिः । प्रियदर्शनजन्यविकासेन मानत्यागगोपनाय नेत्रछादनेऽपि तद्दर्शनरोमाञ्चदन्तुरितमङ्गं विलोक्य मानत्यागप्रतीतिर्भविष्यत्येवेति भावः । उपचरित इति । तत्सदृशरोमाञ्चवत्त्वेनेत्यर्थः । 'विकसिततमालनीलां पुनः पुनश्चलतरङ्गकरपरिमृष्टाम् । फुल्लैलावनसुरभिमुदधिगजेन्द्रस्य दानलेखामिव स्थिताम् ॥' सेतुकाव्ये वेलावर्णनम् । तरङ्गाकारः करः, तरङ्ग एव कर इत्यत्रापि समासभेदो बोध्यः । तस्य साक्षाद्वेलानन्वितत्वेन तु द्वयमेव विशेष्योद्भावि