SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । क्वचिद्विम्बप्रतिबिम्बमावेन धर्मोक्तिः । स च वस्तुतो भिन्नयोरपि सारूप्यादेकत्वाध्यवसानम् । यथा 'उअ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहइ वलाआ । णिम्मलमरगअभाअणपरिहिआ सङ्खसुत्ति व्व ॥' अत्र हि बिसिनीपत्रमरकतभाजनयोरेकत्वेनाध्यवसानम् । क्वचिदर्थगम्योऽपि बिम्बप्रतिबिम्बभाव इति नव्याः । यथा 'मलय इव भाति पाण्डुर्वल्मीक इवाधिधरणि धृतराष्ट्रः ।' अत्र हि चन्दनपाण्डवानां सर्पदुर्योधनादीनां च बिम्बप्रतिबिम्बभावो गम्यते । अयं चात्र विशेषः-उभयमध्ये प्रतिबिम्बस्यैवोपादाने उपमाने धर्महानिर्दोषः, तत्र तत्स्थानीयधर्मानुक्तेः। बिम्बमात्रोपादाने तूपमाने धर्माधिक्यं दोषः, उपमेये तत्स्थानीयधर्मानुक्तेरित्यग्रे स्फुटीभविष्यति । तस्माद्विम्बप्रतिबिम्बभावापन्नयोर्द्वयोरेव शाब्दत्वम्, द्वयोरेव वार्थत्वं विवक्षितम्, न त्वेकस्य शाब्दत्वमन्यस्यार्थत्वमिति तत्त्वम् ।। क्वचिद्वस्तुप्रतिवस्तुभावेन । स च प्रतियोगिभेदेनैकस्यैव धर्मस्य द्विरुपादानम् । स च शुद्धो न संभवत्येव, किं तु बिम्बप्रतिबिम्बभावे विशेषणतया विशेष्यतया वेति दीक्षिताः । तत्र विशेषणतया यथा बिम्बभावे पदैक्योपादानादेव व्यभिचारविरहेऽपि संतानेत्यादिश्लेषे धर्मतापर्याप्त्यधिकरणपुत्रपारिजातोभयवृत्तिपुत्रत्वपारिजातत्वोभयसामान्योपस्थापकसंतानपदैक्यसत्वेन तत्र व्यभिचारः स्यादतः सामान्येऽप्येकेति विशेषणम् । ततश्च तस्य पुत्रत्वपारिजातत्वो. भयसामान्योपस्थापकतया धर्मतापर्याप्त्यधिकरणकृत्येकसामान्योपस्थापकत्वं नास्तीति पदैक्यसत्वेऽपि न व्यभिचार इति भावः । 'पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥' निश्चलनिरुद्यमेति नायकसंबुद्धिरिति केचित् । चलनमवयवक्रिया, स्पन्दस्त्ववयवविक्रियेति भेदः । ततो निश्चला चासौ निष्पन्दा चेति कर्मधारय इत्यन्ये । निश्चलः पर्वतस्तद्वनिष्पन्देत्यपरे । शङ्खशुक्तिः शङ्खनिर्मितं शुक्त्याकारकपात्रम् इति काव्यप्रदीपः । अत्रोपमेयवृत्तिधर्मस्य बिम्बताउपमानवृत्तेश्च प्रतिबिम्बतेत्यालंकारिकसंप्रदायः । द्विरुपादानमिति । पदभेदस्त्वत्र पौनरुक्त्यपरिहारार्थः । यद्यपि उपमानोपमेयवृत्तिरवे सामान्यधर्म इत्युच्यते, अयं च सामान्यधर्मवृत्तिरेव, न तूपमानादिवृत्तिरपि । तथापि संप्रदाया.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy